पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
क्रिरातार्जुनीयव्यायोगः


प्रसवसमय एव क्रोष्टुवत्क्रोशनस्त्वं न“""“हं व्यक्त्तिमेनामकार्पीः ।
कथमधिगतधाष्टर्घो भापसे युद्धहेतोरपरमिव विशङ्के त्वां न दुर्योघनोऽसि॥५३॥

 हरदुर्योधनः--( स्वगतम्) आः ! खलु ज्ञातोऽस्मि । भवत्वेचं तावत् । ( प्रकाशं सावन्तं विहस्य ) पार्थ ! पार्थ । तथ्यमेवैतत् ।

यौधिष्ठिरे यन्निजवस्तुकोशे दुर्योधनोऽन्यः विहिताऽधिकारः ।
प्रवासयन्पाण्डुसुतान्वनान्ते दुर्योधनोऽहं पुनरन्य एव ॥ ५४ ॥

तद्दर्शय शरासारशौण्डत्वम् ।

 अर्जुनः-( सावज्ञम्) अयि सुयोधन ! मसृणोऽमि धनुर्वेदविद्यायाम्, उडुरोऽसि गदाविद्यायाम् । तद्गृहाण गदावत्कृत्वा गदाभावे कोदण्डम् । अहमपि तथा त्तथा करिप्ये । एहि विमर्द्दक्ष ""“ ।

(उमौ तया कुरुतः )

 कण्ठीरवः-( सकौतुकम )स[१]हूलअ ! पेच्छ पेच्छ घडिदा दुये वि महावीरा कोअंदंडसंगरम्मि ।

 शार्दूलः-( साट :चमत्कारम्) क[२]ण्ठीरव ! पेच्छ पेच्छ दोन्ह वि हत्थलाघवं । अहो ! पाअलाहवं,जं कोअंडणिम्मिदपंजरव्भंतरट्टिदव्व दुवेवेि दीसन्ति ।

 सिद्धा ---- आः । पश्यत पश्यत ।

  कौरव्यं """"""""" धनुपा मौलौ मधोनः सुतः

( साक्ष्चवै ससम्भ्रमम् )

  सम्प्राप्तासरेऽत्र हन्त ! रुधिरे वालेन्दुरम्युघतः ।

( सहर्पभ् )

हेहो ! पश्यत पश्यतेशमुनयः साक्षाद्भयानीपति-
र्भासां पूरमनश्वरं परिकिरन्सानन्दमुज्जृम्भते ॥ ५५ ॥

 ( सर्वे सहर्पाश्चर्यमालोकन्ते, अर्जुनः शङ्करमालोक्य ससम्भ्रमं नमस्ते नमस्ते इति साष्टाङ्गमवनौ निपतति )


  1. शार्द्दूलक !प्रेक्षस्व प्रेक्षस्व । घटितौ द्वावपि महा-ीरौ कोदण्डदण्डसङ्गरे ।
  2. कण्ठीरव ! प्रेक्षस्व प्रेक्षस्व द्वयोरपि हस्तलाधवम् ! अहो ! पादलाघनंं यत्कौदण्डनिर्मितपञ्जराभ्यन्तरस्यिताविव द्वावपि दृश्येते।