पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
वत्सराजप्रणीतरूपकसङ्ग्रहे


( अर्जुनः सावज्ञं सस्मितमवलोकते )

 कण्ठीरवः- ( साक्षेपम्) रे रे गोमाउआ ! कोस अणुचिदं मन्तेसि | णं सुणिंदेणं येव सम्मुहमुपसप्पन्तो एस दुट्टकोलो वावादिदो । किण्ण पेक्खसि लोहिअलित्तं हत्थे स[१]रं ।

 गोमायुकः- ( स्वगतम् ) अन्च्छरियं ! अच्छरियं ! । अउव्वो कोवि एस कोअंडमंडिदो मुणी । ( प्रकाशं सप्रत्यभिज्ञमिव ) अयि वीरमुणिंद ! सो अम्ह सामिणो स[२]रो ।

 अर्जुनः-सखे सिद्धादेश ! कष्टं कप्टम् ।

पत्री मदीयो विधिवैपरीत्यात्क्रूरं कलङ्कद्धयमद्य लेभे ।
व्घापारितो पत्किटिकीटघाते भमेति घच्चाह हहा ! किरातः ॥ ३५ ॥

 गोमा०-मुपिावीर ! तणुलदाए तणुअत्तणामेत्तफलं तुअ तवं संयुक्तं, जं एवं अकअण्णुओसि,जं एवं परवत्थुलोहिओसि । एसो खु मग्गणो तुह परित्ताणपराअणेण अम्ह सामिणा इमम्मि दुव्विसहवराहम्मि मुक्को । संपइ तुमं अवमिच्चुमुहादो उव्वरिदो । फुल्लंतगल्लो जंपेसु जं पडिहाअदि । ण ल्लु अम्ह सामी तुमं णिअकित्तिक्खंभं भंजयिस्सदि[३]

कण्ठीरवः-( साक्षेपम् ) रे रे सहूलअ । अम्हाणं एस कलंको जं अम्ह पुरदो गोमाउओ भअं वग्गदि[४]

गोमा-( सावक्षहासम्) रे रे कंठीरव ! रे रे सद्दूलअ ! तुम्हाणं किं किं अगोअरो अम्ह वाहिणोसवाणाणं पसरो[५] । ( साकूतमिव ) अहह ण एस सूअरो


  1. रे रे गोमायुक ! कथमनुचितं मन्त्रयसे ! ननु मुनीन्द्रेणैव सम्मुरलमुपसर्पमाण एप दुष्टकोलो व्यापादितः । किं न प्रेक्षसे हस्ते लोहितलिप्तं शरम् ? ।
  2. आश्चयैमाश्चर्यम् । अपूवैः प्कोऽपि कोदण्डमण्डितो मुनिः । अयेि वीरमुनीन्द्र ! स अस्माकं स्वामिनः शरः ।
  3. मुनिवीर ! तनुलतायास्तनुत्वमात्रफलं तव तपः संवृत्तं यदेवमकृतज्ञोऽसि, यदेवं परवस्तुलोभितोऽसि । एप खलु मार्गणस्तव परित्राणपरायणेन अस्माकं स्वामिना दुर्व्विपहवराहे मुक्तः । सम्प्रति त्वमपमृत्युमुसादुदृत्तः।फुल्लद्रल्लोजल्प यत्प्रतिभावि । नखलु अस्माकं स्वामी त्वया निजकीर्त्तिस्तम्भं भञ्जयिष्यति ।
  4. रे रे शार्दूलक ! अस्माकमेप कलङ्की यदस्माकं पुरतो गोमायुको भयं वल्गति ।
  5. रे रे कण्ठीरव! रे रे शार्दूलक! युष्माकं किं किमगोचरोऽस्मद्वाहिनीशवाणानां प्रसरः ।