पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
केिरातार्जुनीयव्यायोगः


 अर्जुनः-(श्रुत्वा ससम्भ्रमम्) कथमयं मत्तः किरातोऽग्रणीर्भविष्यति ? । ( इति कृतवेगो बाणमोक्षं नादयतेि )

 सिद्धा०-(विमान्य साश्चर्यम्)महाभाग ! पश्चाद्भूतस्ते बाणः । पश्य! पशय!

स्पृष्टः कस्यापि द्दप्टया नहि नहि विहरत्यन्तरे कुण्ठवेगो
 मर्मच्छेदप्रवृत्तैरनुमितपतनस्तारचीत्कारभारैः ।
कस्याप्याकस्मिकोऽयं लयसमयमहामारुतस्येव पूरो
 नाराचः**'द्रागतनुतनुकुटीं चण्डशक्त्तिर्भनक्त्ति ॥ ३४ ॥

 अर्जुनः-(सवैलक्ष्यम्)'कथं विजपिनोऽपि ममायमविजयेिवाणतां वाणः प्रपेदे यत्किरातशरेणापातिते पोत्रिणि पपात ? । भवतु न याचदितरः कोऽपि लक्षयति, तावदात्मवाण्गप्मानयामि । ( इत्युपमृत्य भूदारं विभाव्य साश्चर्यम् ) अहह ! न मयापि कदापि एवंविधविशालकायः कोलोऽवलोकिनस्तत्किमेप मायामयः कोऽपि कौरवानुग्रहग्रहिल, उताहो स्वैराहारविहारपुष्टो वराह एव । भवत्वाददामि तावन्निजवाणम् । ( इति तया करोति )

 सिध्दा०--( निरूप्य ) महाभाग ! घातरन्ध्रमेवास्पाङ्गे द्वितीयमवलोकपामि | तत्कारप्र्ण तत्प्रत्यभिज्ञाय गृहाणात्मघाणम् । कदाचित्प्रहारदाढर्वादुल्चणोभपपाश्वैकृतरन्धो भवद्वाण एव निर्गत्य घचिद्गतो भवेत् ।

 अर्जुनः-सिद्धादेश । अयमेव मे वाणो, न द्विकत्थनो मिथ्या व्याहरिप्यामि ।

 सिद्धा०-नैय तर्हि किरातमात्रं, महानयं कोऽपि ,यस्य पत्री पोत्री कुत्र गत इति न ज्ञायते ।

 अर्जुनः-'(सवितर्कम्) न खलु निजवाणं गृहीत्वा किरातो गतो भवेत् ।

 सिद्धा०-प्रतिपालय तर्हि मुहर्त्तम् । किमिह कोऽप्याघावतेि ।

 पुरुपः-(प्रविश्य पृरोऽवलोक्य)क[१]घं एस सो मुणी !।(ससम्भ्रमुपसृत्य)अयि मुणिंद ! ण तुमं एदिणा दुट्टभ्नूआरेण किरादवाहिणीसवाणघाअवेञ्अणामोहकअर्झपेण कहिंपि पीड़िदो ।


  1. कयमेप स मुनिः । अयि भुनीन्द्र ! न त्वमेतेन दुष्टभूदारेण भिरातवाहिनीशपाणघातपेदुनामोहकृतझम्पेन युत्रापि पीडितः ।