पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
वत्सराजप्रणीतरूपकसद्वहे


किंटिदंष्ट्राभिघातमापद्यते मुनीन्द्रः । आः शङ्कर ! परित्रायस्व परित्रायस्व । किमुदासीनोऽसि, किमिति स्वेनैव स्वनाम प्रोय्र्घ्ञ्छसि ? ।

 अर्जुनः-( श्रुत्वा सकरुणमाकाशे लक्ष्यं वद्धवा निःश्वस्य )

पार्थस्तपस्वितां लेभे दुर्दैव ! प्रीयतां भवान् ।
मुनयो हन्त शङ्कन्ते भूदाराद्दारुणं मयि ॥ ३० ॥

( पुनर्नेपथ्ये )

 अयि मुनीश्वर !

सेव्यः परं स भगवान्नवचन्द्रचूडस्तस्यापि'दैववशतः करुणानुरोघः ।
अस्मिन्वने मुनिजनव्यसनोपशान्त्यै कोदण्डपाणिरयमेव हरःकिरातः ॥ ३१॥

 तदयमेवाभ्यर्थ्य मुनेरस्य प्राणत्राणाय नियुज्यताम् ।

 अर्जुनः-( समाकर्ण्य ) अहह ! इदमन्यदतिदारुणतरमुपस्थितं यन्मां किरात: परित्रापते ।

 सिद्धा पार्थ ! त्वमेव प्रथमं सपत्राकुरु पोत्रिणम् ।

 अर्जुनः- ( गाण्डीवमुहिश्य सकरुणं सास्त्रम् )

यत्ताण्डवव्यतिकरेण रणे मुहर्त्तं ताद्दक्कवन्घशतताण्डवकेलिरासीत् ।
गाण्डीव! तस्य भवतः किटिपाटनार्थमारोपयन्नपि गुणं व्यपरोपयामि ॥ ३२ ॥

( इति सत्र्त्रं करोति । निपङ्गतो वाणाकर्पणमभिनयन् )

 कथं न निर्गच्छन्ति वाणाः ? । किममी चिरव्यासङ्गगाढलग्रा, उत लज्जन्ते ऽनुचितकर्मणि ? । ( कपंचिदाकृप्य निःश्वस्य ) अयि वाणाः ।

उपितुं साधु युप्माभिर्निपङ्गायामवाङ्भुखैः ।
इदानीं हन्त ! सन्धत्ते पार्थो वः पोत्रिपातने ॥ ३३ ॥

( इति सन्घत्ते )

 ( नेपथ्ये )  [१]महाभाआ ! इमाओ मा भाअह मा भाअह | एसो खु अम्ह सामी एक्कवाणेण चारेदि दुट्टभूआारं । उव्वरिदो महामुणी ।


  1. महाभागाः! अस्मान्मा व्रिभीत मा व्रिभीत । एप खलु अस्माकं स्वामी एकवाणेन वारयति दुष्टभूदारम् । उद्वृत्त,महामुनिः ।