पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीयोऽङ्कः


( ततः प्रविशति कृष्णो लक्ष्मीश्च )

 कृष्णः- ( लक्ष्मीं विभाव्य स्वगतं सहर्पोत्फण्ठम्) नृनमोदृग्विधस्त्रोसर्गशिल्पे वैदेशिक एव वेधाः । तथाहि-

इन्दोः कलास्त्रिदशपादपपल्लवानि
पीयूपमुज्ज्वलरुचो मणयश्च ते ते ।
यस्याद्भुतोपकरणावलिरित्थमस्ति
 स्रुष्टुं स ए॒व भवति॒ प्रभ्रुरव्घृिरेनाम् ॥ १ ॥

 ( सखेदुम्) किं पुनरिमां विपादवशंवदामिच चिभावयामि ? । ( विमृश्य) नूममस्याः पाणिग्रहणसमयासत्तिमाकर्ण्य कन्याभावसुलभमाविर्भवति वैमनस्यम् । भवतु सम्वोधयामि । ( प्रकाशम् )

मुञ्च प्रिये ! पितृवियोगभयाकुलत्वं
 मेत्रे नियन्त्रयसि किं चरणाङ्गुलीपु ।
त्वत्सौमनस्यसुखसञ्चपनैकनानः
 स्थास्पामि सुभ्रु ! जलजन्तुवदन्तरव्घेः ॥ २ ॥

 लक्ष्मीः-( स्वगतं सद्दर्पम्) एवंपि भोदि, आदु आसासेदि मं सुहओ ? । (प्रकार्शं सबाप्पगद्रदम्) कुदो एदं महणवेअणादो पहुदि दंसणमेत्त॑पि मह दुल्लइं देवदारूवस्स तादस्स एदंय्येव तव रूवं पअडं पेच्छामि [१]

 कृष्णंः-अपि सुतनु ! प्रत्यासन्नमेव तव तातदर्शनम् । ननु प्रभुणा पिनाकिना प्रजापतिप्रमुखत्रिदशैरपि लोभवशविहितानौचित्यैरपराधीनमिवात्मानमाशङ्कमानैर्भगवन्तमम्भोधिमानेतुं वरुणः प्रेपितोऽस्ति । गाम्भीर्यावधेश्च तव तातस्य मन्दरावर्त्तमात्रेण का वेदना ? । मथनार्जितद्रव्यजातादपि यद्यद्यस्य महोदधिदस्यति तत्तस्य भविष्यति । तत्समाक्ष्वसीतु भवती ।

 कृष्णः--( विभाव्य स्वगतम् ) अहो सङ्कटं कन्यकानाम् ।

( लक्ष्मीः समाश्वर्स्य सकरुणस्नेहं सागरममलोकते )


  1. एवमपि भवति अथवा आश्वासयति मां सुभगः । कुत एवन्मयननेदनातः प्रमृति दर्शनमात्रमपि मम दुर्लभं देवतारूपस्य वातत्थ ! एतदेव तव रूपं प्रकटं प्रेक्षे ।