पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीयव्यायोगः


गङ्गातीरतपस्विवैशासरसव्यासक्त्तचित्तो जवा-
 त्क्रोडोऽयं कलितः कुधा कलिरिव क्रूराशयो धावति ॥ २७ ॥
कुद्दालीयति सान्द्रकन्दपटले वाढं कुठारीयति
 स्कन्धाग्रेपु परश्वधीयति शिखाशाखासु सम्पातिनी ।
र्दप्ट्रेयं विकटा किटेः प्रतिपदं मार्गद्रुमद्रोणिपु
 कूरक्रूरपराक्रमप्रणयिनी किं किं न सम्पद्यते ॥ २८ ॥

 अर्जुनः-( सप्तम्भ्रर्म विवृत्यावलोक्य ) कथमयं कृतकर्णकापः कटुः कोलाहल एव क्ष्रूयते ? । न कोऽपि लोचनपथमवतरति ।

 सिद्धा०--क्क पुनस्तौ किरातौ ? । न खलु व्यापादितौ ।

( प्रविदय )

 किरतौ ----महाभाआ ! परित्ताअध परित्ताअध । एसो खु पअंडतुंडाभिहदविअलन्तविसालन्तजालनिवडन्तसवरवरसरीरविसमीकअमग्गो रुहिरोहपिंजरिददाढाजुओ दारन्तोव्व सअलभुअणाइं घोरघुरुक्कारेहिं भीसणो कोचि भूआररूओ अवमिच्चू पवि[१]ट्टो ।

 अर्जुनः-( सावतं विहस्य ) भद्रौ ! न भेतव्यं न भेतव्यम् ।

 सिद्धा०-महाभाग गाण्डीवधन्वन् ! सुज्जीभव सज्जीभ्भच । अयमागत एव नेत्रपात्रतां पोत्री ।

 अर्जुनः-( धीरं विलोक्य साश्चर्ये सवितर्कम्)

विक्रान्तो वहिरम्भसस्तरलधीर्दप्ट्रामिपादव्जिनी-
 कन्दच्छेदसृखः किमेप सलिलस्तम्वेरमस्यार्भकः ।
संहारेऽपि निजप्रसक्त्तिपटुतां संदर्शयन्नुत्कटां
 साक्षादादिवराह एव किमयं प्रागुहृतक्ष्मातलः ॥ २९ ॥

(नेपथ्ये )

 कष्टं कष्टं शिावसेवैकनाने तपसि प्रवृत्तोऽपि कथमयं विकटकटुकोटि-


  1. महाभागा ! परित्रायध्वं परित्रायध्वम् । एप खलु प्रचण्डतुण्डाभिहतविगलद्विक्ष्रयन्ञ्लनिपतच्छवरवरवीरशरीरविपमीकृतमार्गः रुधिरौघपिञ्जरितदाढायुतः दारयन्निव सफलभुवनानि धेश्घुरुत्कारैः भीपणः कोऽपि भूदाररुप: अपमृत्युः प्रविष्टः ।