पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
समुद्रमथनाभिधानः समवकारः


दुग्धप्लोपविरूक्षगर्वविपमच्छङ्कारवाचालितः
 क्षीराब्घिः पुनरेति मेचकरुचिः कोऽप्येप वोपर्युधः ॥ ६९ ॥

 वासु०-( सभयं साश्चर्ये समन्तादलोक्य ) कथमहह! क्षणादेव न किमपि पशयामि ।

नष्टः कुत्र महार्णयः क्क नु ययौ तादृक्स मन्थाचलो
 विद्राणः क फणीश्वरः क्क नु गतास्ते हन्त देवासुराः ।
दिकूचक्रं ज्वलयन्निरडुशमिलदद्धोरान्घकारोर्मिभिः
 पातालायितरोदसीपरिकरः कोऽयं प्रकारोऽभवत् ॥ ७० ॥

 महेशः-( ससम्भ्रमम् ) अयि कृप्ण ! पालने तव नियोगस्तदिदानीं सह देवासूरैः समुद्रमथनोपात्तवस्तृनि गृहीत्वा क्कचित्परिपालय । अहमेनमनर्थं शामयामि ।

( इति निष्फान्ताः सर्वे )

प्रथमोऽङ्कः