महेन्द्रः- ( विलोक्य साश्चर्यम् ) कृष्ण ! कृष्ण ! पश्य पश्य । आश्चर्यमयं किमप्यतिप्रमाणं मरकतरत्नं समुल्लसति ।
वासु०-( निरूप्य )
आनन्दसन्दोहनिदानशक्त्ते |
धनदः-( ससन्भ्रमम् ) अत्याहितमत्याहितम् पश्यत तावदितः।
इहोपरिप्टाद्विहगा भ्रमन्तः |
इन्द्रः-( विभाव्य ) पश्यत पश्यत । विनिर्गतैव काचिदिह वल्ली ।
कृष्णः-( निरूष्य ) नूमं विपमिदम् । अहह! अत्याहितमापतितम् । शिव ! शिव ! सुरा समागता, विपं चागतम् ।
महेशः --- (ससम्भ्रमम् ) कृष्ण ! कृष्ण ! साधिदैवतं द्रव्यद्वमिदं प्रसाघ वेलावने निवेशयतु भवान् ।
( कृष्णस्तथा करोति )
महेन्द्रः--( सरभसम् ) अयि सुरासुराः.! तथेदार्नी समधिकबला विरचयत विलोडनं , यथा समासादिताङ्भुतपदार्थाः पुनर्विलोडनाय न स्पृहयामहे । ( सर्वे तया कुर्वन्ति )
( नेपथ्ये कलकलः )
वासु०-( समाकर्ण्य ससम्भ्रमम् ) आः !कएप मन्दरापरपार्श्वे सुरासुराणां भोपणः कलकलो विजृम्भते ? ।
( पुनर्नेपध्ये )
धूमः प्रेद्वति कोऽपि सार्द्धमशुचिर्नेत्राणि निर्वासयन् |