पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वत्सरांजप्रणीतरूपकसङ्गहे

 अर्जुनः-( सप्रक्ष्रयम्) भगवन् ! गीर्वाणवर्गचक्रवर्त्तिनोऽत्रभयतो भगवति भर्गेऽपि निदेश एवायं न पुनराशोः ।

 महेन्द्रः-वत्स ! वत्स !। मैवम् ।

यत्प्राप्तुं तरलीभवत्पथ मनो व्यावर्तते व्रीडपा
 यस्योपायनिरूपणे नयविदां मन्दायते नैपुणम् ।
तेऽपि व्रह्जनार्दुनम्भ्रुतयो न्यञ्चन्ति यत्प्रार्थिता-
 स्तान्नेत्राञ्चललीलयैव घटयत्येकः परं शङ्करः ॥ २३ ॥

 सिष्द्रा०-भगवन् सहस्राक्ष ! भवनः साक्षात्कारेणैव पूर्णमनोरथः पार्थः संवृत्तः । तथाहि -----

कथमन्धवलात्तेषां पाण्डवानां भवेद्भयम् |
सहस्रनयनः पक्षे येपामुज्चागरः सदा ॥ २४ ॥

 महेन्द्रः-अयि द्युह्यकोत्तम ! मैवम् ।

ऐक्यं गतः क्ष्रीपुरुपोत्तमेन कृत्वान्धकोद्दामवलप्रणाशम् |
शिवप्रसादेन शिवानुभावःपृथासुतोऽयं भविता सुशक्त्तिः ॥ २५ ॥

तदापृच्छतु मां वत्सः ।

 अर्जुनः-( सकरुणप्रश्रयम्) तात पुरुहृत !

प्रेमार्द्रनेत्रोत्पलकाननाढयं त्वत्कयकासारमिमं विमोक्तुम् ।
दुर्वृत्तदायादनिदाघतप्तः समीहते भे न मनोमरालः ॥ २६ ॥

 महेन्द्रः-वत्स ! वत्स ! मा विपीद । प्रसादितचन्द्रशेखरं चन्द्रशेखरास्त्रनिरस्ताशेपकौरव्यं पुनस्त्वामहं द्रक्ष्यामि । ( इति तिरोघत्ते )

 अर्जुनः-सखे सिद्धादेश ! एहि भगवर्तीं भागीरथीमुपास्य भगवन्तं भर्गमुपास्महे ।

(नेपथ्ये )

 अत्याहितमत्याहितम् ।

कुर्वन्घर्घरमारपं पृथुरदो घोणां समुतफुल्लय-
 न्नङ्घासङ्घमिवोच्चकैस्ननुरुस्नोमं दधत्पीवरम् ।