पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
समुद्रमथनाभिधानः समयकारः


 कृष्णः--क्त्रियतां महेशनिदेशः ।

(औपधयस्तथा तिष्टन्ति )

 वायुः--(सोत्साहम्) अयि देवदानवाः ! विवर्त्तयत मन्थाचलम् । अहमपि निजयेगवैभवेन सहस्रगुर्णीकरोमि तद्धेगम् । वितरतु रत्नाकरो दुष्प्रापपदार्थान् ।

(देवदानवास्तथा कुर्वन्ति )

 कुवेरः-(साश्वर्यम्) आस्तामास्ताम् । पश्यत पश्यत विविधवर्णतां महार्णवस्य ।

 कृष्णः ---- (सवितर्कम् )

उत्प्रेह्खन्ति तुपित्कटस्य वहवावह्ने किमेताः शिखाः
 सिन्धुर्दर्शयते पुरन्दरधनुर्निर्जिप्णु किंवा धनुः !
एतत्किञ्चिदुदीयतेऽद्भुतमयं द्रव्यान्तरं किन्नु वा
 यज्जयोतिर्निचयैर्घनं कवचितो नेत्रायते सागरः ॥ ५२ ॥

(तत प्रविशन्ति विविधवर्णानि रत्नानि )

 कृष्णः-( निरूप्य सहर्षम् ) अये ! रत्नानि समागतानि । इदमेतेपु किमपि मांसलं कुटिलं प्रधानरत्नम् । (सोत्कण्ठम् )

क्षृङ्गारिताशेपसमुद्रपूर-
 मिदं मनोहारि न रोचिपैव ।
जन्मान्तरोपार्जितबन्धुकम्पं
 हार्द्दादपि द्रावयतीव चेतः ॥ ५३ ॥

 तदावेदयामिदेवदेवस्य । क्षीकण्ठ । निरूपय निरूपया रत्नानि समागतानि ।

 महेशः-( सद्दर्पम्) अद्य कृतार्था पृथिवी । ननु वक्त्तव्यं समागतानि निघानानि, समागता लक्ष्मीः , समागतममृतम्। तदिदानीम्-

एतेऽत्र पावनशिरोमणयो भजन्तां
 वेलावनाभरणतां मणयो मुहर्त्तम् ।
आयामिभिः किरणबाहुभिरम्बुराशे-
 राप्रश्नकालपरिरम्भमिवार्ययन्तः ॥ ५४ ॥

( रत्नानि तया तिष्टन्ति)