पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
समुद्रमथनाभिधानः समवकारः


 महेशः-( सहर्पस्मितम्) कृप्ण ! अनुप्ठीयतां सुरज्येष्ठशासनम्।

 वासु०-~-( सप्रश्रयम् )

उग्र ! त्वदग्रतो गाढं सर्व एवोत्सहामहे ।
उज्जृम्भते हि भृटत्यानां कापि शक्तिः प्रभोः पुरः ॥ ३१ ॥

 तदायातु मन्दराद्रिः ।

 इन्द्रः-( नभोऽवलोक्य ) कृप्णदेव ! पश्य पश्य ॥ अम्परादुत्तीर्य प्रत्पातन्नो बभृव महोदघेर्मन्दराद्रिः॥

अभ्युत्थित इवातिथ्यान्मैनाको गौरवेण यम् ।
समुद्रमध्यसङ्क्रन्तप्रतिविम्घस्य कैतवात् ॥ ३२ ॥

 वासु०-( सद्दर्षस्मितं हरकण्ठे शेपमालोक्य)

निर्मोकवद्यः पृथिवीं वेिभर्त्ति
 पयैङ्कतां याति जगत्पतेर्यः
तस्यैव ते मन्दरशैल ! मन्थ-
 नेन्त्राधिकारः फणिराजयोभ्यः ॥ ३३ ॥

 शेपः--( सप्रश्रयम्)-

दन्दशूकस्य कीटस्य शत्तिरेवंविधा क मे ।
प्रभुः करोतुं यत्किश्विन्मयि न्यस्य स्ववैभवम् ॥ ३४ ॥

 महेशः-( सत्मितम्) नागराज ! अविलन्वितं विघेहि मुकुन्दसन्देशम् )

( शेपः सहसा शिवफण्ठादुत्तीर्य नाट्येनोङ्डीय दुग्धाीिधमध्यगतमन्दरमभिवेष्टयति )

 महेन्द्रः-( सहपेोंडासम् ) अये देवा अये देवा ! पूर्ववदेव अवलम्बत नागेन्द्रनेत्रमुभयपाश्र्वयोः । ( सर्वे तथा कृन्वा विलोडनाभिनयं कुर्वेन्ति !| मन्दरस्तथैप तिष्टति )

 महेशः-(विद्दस्य )

सर्वेऽपि कुणयः कृप्ण ! त्वां विनामो सुरासुराः ।
त्वमेपामद्धुतो वाहुर्निप्प्रत्यूहश्चतुर्भुजः ॥ ३५ ॥

 तद्धयवस्यतु भवान् । मा भवतु विडम्ब्र॒ना सुरासुराणाम् ।

 कृष्णः-(सहसोपसृत्य मन्दरमावर्त्तयन्स्वगतं सोत्क्ण्ठम्)

तामम्वुधावत्र विचिन्त्य म्क्ष्मी-
 मुत्फम्पितं निःक्ष्वसितं च दीर्घम् ।