महेन्द्रः---(स्वगतं साशङ्कम्) कथं मां तातेति वत्सो व्याजहार । न खल्वनेन तपःसमुद्भूलातीन्द्रियज्ञानेनविदितोऽस्मि । भवत्वहमपि सन्दिग्घेनैव व्याहरामि (प्रकाशम्)वत्स ! किंमद्यापि ते मोहमलीम्सं मानसम् । मुञ्चमुञ्चदुरध्यवसायम् । पश्य पश्य न खलु त्वदनहतैर्वैरिभिर्न मर्तव्यम् । न च त्वया निहतवैरिणा न मर्त्तव्यम् । नहि कवलितमूयिकेण विडालेन न म्रियते । न च वञ्चितविडालकवलनापायैर्मूपकैर्न त्रियते ' तदेवं साधारणकृनान्तव्यापदामुपहसनीयोऽयं दुर्व्यापारः । तदत्रभवते महोदय एव स्वदताम् ।
अर्जुनः-( सानुतापम्) तात ! अननुभूतपराभवाभिपङ्गोऽसि । किमुच्यते? । तदत्रभवन्तं विशपपामि । अनतिक्रमणीयवचनोऽसि । नैवं पुनः पुनर्व्याहर ।
उत्कृत्यूायस॒सूायकेन समरे दर्पोद्धतान्विद्विप- |
महेन्द्रः-- (स्वगतं सहर्पम् ) अहो ! वीररसैकग्रहिलता वत्सस्य । अहो ! स्थिरवैरता । दिप्ठवा निप्पन्नमेव भुवो भारावतरणम् । तथाहि ---
मुरारिमारुतफीतो घनस्त्रयघनञ्जयः । |
तदहमिदानीं प्रकटीभवामि समाश्वासनाय वत्सस्य ।
(इति तया करोति )
अर्जुनः--(विलोक्य साश्वर्य सहूर्पम्) कथमयं सहस्त्रनपनो नयनोत्सवाय संवृत्तः । तदिदानीं सविशेपं प्रणमामि । (इत्युपमृत्य पदयोः पनति )
महेन्द्रः-( उत्थाप्य शिरसि समाघ्राय) वत्स ।
अस्त्राक्षीच्चतुराननः स भगवान्पत्पूर्वमम्भः क्रमा - |