पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
समुद्रमथनाभिधानः समनकारः


 निष्ठु०--(सोपद्दासम्) ययेवं तदा गतप्रायं नारायणस्य पाणिग्रहणम् । किमेवमुत्तष्यसे ? । अहो अद्भुत्तमद्भुतं चक्षुःपथमेव यो नायतरति कस्तेन सह प्रमवन्धः । रे रे मूर्ख ! अस्मदादीनामपि गुरव एवमुपदिशान्ति-

दुर्द्दर्शो निर्गुणः सृक्ष्मः केवलोऽङ्गुष्टमात्रकः ।
वीनरागो महामायः कृप्णस्रैलोक्यमोहनः ॥ ५ ॥

 पद्म०-( सकोधम्) ये एवं मन्नंति ण ते तुम्हाणं गुरू जाणन्ति, ण अ तुम्हारिसा सुणेन्ति । अंधाणं अघेसु एस रूवविशेसो व एसो । पेच्छ रे ! पेच्छ ! भअवदो कन्हस्स स्ल्र्व [१]। ( इति चित्रपटं दर्शयति )

 निष्टु०-( विलोक्य सवित्मयम् ) रे रे! क्क पुनरयं भवता समासादितः?। मया किलेह ध्यानाय मधुसूदनरूपमालिखितम् । अत्राहं वेलावनाश्रमे वसन्नहरहः कृप्णरूपमिदं ध्यायामि । एकदा वर्द्धिष्णुसिन्घोः कल्ललेनापहृतः ।

 पझ०-भअवं ! एसो खु समुद्ददइआए गंगाए समुद्दसुआए महुमहविरहविहलाए लच्छीए कए महुमहालेक्खसणाहो चित्तवडो पेसिदो अत्थि[२] । निप्टु०- ( सन्तोधम्) अर्पय मदोयम् ।

 पद्दा०-( सरोपोपहासम् ) अप्पिदो वि ण तुह हत्थे चिट्टदि ! अत्थि किंपि तुह पाचं ज्ञेण आलेक्खेवि ण तुहु दंसणं देवो कन्हो । अदो य्येव कल्लोलपेल्लणववदेसेण तुह हत्थादो पव्भट्ठो चित्तयडो[३]

 निप्टु०-( सकोधम् ) आः पाप! पापलेशोऽपि न मे विद्यते । इदानीं भवतः कलुयशीलस्य संलापेन भविप्यति । तदपसर्पतु भयानन्पतः कुतोऽपि ।

 पझ्०--( सगर्वम्) रे रे भगवं ! नारायणपरायणाए दुक्करं तवन्तीए लच्छीए सन्निहणम्मि कृदो मे पापं, कृदो अ लच्छीए मणोरहाणं असिद्धी[४]? ।


  1. ये एर्व मन्यन्ते न ते युष्मामाकं गुरुन् जानन्ति, न च युष्नादृशान् शृण्वन्ति । अन्धानामन्धैपु एष रूपविशेप इव एपः ।
  2. भगपम्.! एप खलु समुद्रदथितया गङ्गया समुद्रसुताया मधुमयविरद्दविहलाया लक्ष्म्याः कृते मघुमयालेएयसनायः धित्रपटःप्रेपिनोऽस्ति ।
  3. अर्पितीऽपि न प्तव हस्ते निष्टनि । अस्ति क्मिपि तप्र पापं येनालेख्येऽपि न तव दर्शनं दददि कृण्णः । अत्त एव फल्लोलप्रेरणव्यपदशेन तव हम्न्तात्प्रभ्रष्टः चित्रपटः: ।
  4. रे रे भगवन् ! नागचणपरायणतया दुष्करं तपः तपन्ल्या लक्ष्म्याः सन्निधाने कुतः पापं, युतश्च लैम्या मनोरयानामसिद्धिः ।