पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
हास्यचूडामणिः प्रहसनम्


अहमिह सुखमम्ब ! त्यक्त्तविभ्रंशशङ्कः
 पथि नियभपराणां नीरसे सञ्चरामि ॥ ८ ॥

 कपट०-( सोपहासय् ) सुहअ ! णाअरोसि जाणसि परिहसिदुं, जं मं अम्वेत्ति वाहरसि । ण उण जाणसि भाअवदाणं रहस्सं । ण सुदो तए स स्सिलोओ

भगवान् कुरुते नित्यं यः कन्दर्पनिपेवणम् ।
सुतरां प्रीयते तस्य कन्दर्पजनको हरिः ॥ ९ ॥

 ण उण अहं जापो केत्तीआओ भाअवदाणं विसीओ णिअसुरअसत्थरोसीसअम्मि मये दिण्णाओ[१]

 ज्ञान०-( सक्रोधम् ) आः पापे ! पतिप्यसि भागवतदर्शनदूपणपङ्केन ।

 कपट०--( विहस्य ) सुहअ ! ण णिवडिस्सं । एसो मे आलम्यणमत्थि तुह दंडो।[२] ( इति दण्डं स्पृशति )

 ज्ञान०-आःपातकिनि । मा स्ष्टश मा स्पृश । ल्वयि यमदण्डोऽयं दण्डः।

( इति दुण्डमाच्छिद्य हन्तुमुपक्रमते )

 कपट०-( सत्वरमपसृत्य ) रेरे पणट्ठभअव ! ण मे एत्थ कोकिलपारावदा तेण मं अणाहं च ताडेसि [३]

( तत. प्रविशतः संरव्धौ कोकिलपारायतौ )

 पारवतः-कोकिलाआ ! कर्हिपि इध उज्जाणे सो णट्टभअवओ पुलोईअदि, जो अम्ह चोरिआकलहमुप्पादेदि[४]

 ज्ञान०-(पुरोऽवलोक्य सभयम्) अम्व ! त्वमेवात्र शरणं मे ।

 कपट०--( सक्रोधम् ) अज्जवि मं अंवित्ति वाहरसि[५]  ? ।


  1. सुभग ! नागरोऽसि जानासि पग्हिसितुं यन्मामम्वेति व्याहरमि ।न पुनस्ल्वं जनिामि भागपतानां रहस्यम् । न श्रुतस्त्वयास इलोकः । न पुनरहं जाने क्रियत्यः भागवतानांविशल्यो निजमुरतस्रस्तरोच्छीर्पके मया दत्ता ।
  2. सुमग ! न निपतिप्यामि । एप मे आलस्यनमस्ति तव दण्डः ।
  3. रेरे नष्टभगवन् ! न मे अत्र कोक्लिपारावतौ येन मामनाथामिव ताडयसि !
  4. कोकिलक ! स कुत्रापि इहोद्याने नष्टभगनान् प्रलोक्यते योऽम्माकंचौरिकाकलहमुत्पादयति ।
  5. अद्यापि मामन्वेति व्याद्दरसि ? ।