त्वद्विग्रहग्रहिलता न भविप्यतीयं |
(इति बाणवर्पे नाटयति )
सर्व०-(प्तावज्ञं विहस्य) अयि विशाख!सुखयति मां कुतूहलिनं तव यालस्य धाष्टर्यं, तन्नाहं त्वयि धनुः सज्जं करिप्ये । खेलतु भवान्यथाकामं मम सैन्ये ।
नन्दी-( अपवार्य ) कुमार ! विरिञ्चिवरदानेन केवला अमरा एव त्रिपुरासुरास्तदलमनेन सार्द्ध मुधा युद्धायासेन । बलमेवास्य विदलय वाणवर्पैः ।
( कुमारः तथा करोति )
नन्दी-( सहर्पे सोल्लासम्) विजयतां कुमारः । इतस्त्वया वाणगणैर्वेतालैक्ष्च विदलिता एव दानवाः ।
कुमारः-अपि शिलादसूनो ! कथं य एव दुानवा निहतास्त एव प्रतिजीविता उदायुघाः समायान्ति ? । तत्किमेतत् ? ।
विश०-ंरे रे दैत्यवीराः ! समरोपरतान्वीरानमृतकुण्डे मज्जयत यया प्रत्युज्जीविताः समधिकयलं युध्यन्ते ।
(नेपथ्ये)
क्रियत एवैतत् । किन्न पशयत्यमात्यस्तथैव वलमक्षयम् ।
कुमारः---( सोल्लाप्तम्) अयि सर्वताप !
सततममृतकुण्डं यर्द्धतां वर्द्धतां ते |
नन्दी- ( अपवार्य ) अयि कुमार! आग्रेनेयबाणलृनैः स्वर्णप्राकारखण्डैः पूरयामृतकुण्डम् । नान्यथा क्षीयन्ते दानवाक्षोहिण्यः ।
( कुमारः तथा करंति )
(नेपथ्ये )
स्वर्णप्राकाररखण्डैः शिस्त्रिविशिरवशिखाखण्ङयमानैः सुतसैः
पूर्ण पीयूपकुण्डं छमिति मुखरितैः पीतपीयूपपूरैः ।
(नेपथ्ये )