पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् २५
( उपेत्य)
कथं मां दृष्ट्वा परावृत्तमुखी स्थिता ।
( वस्त्रान्तं गृहणन् )
एतन्निवर्तय सुगात्रि मुखारविन्द-
मीषत्तरङ्गपरिवृतमिवारविन्दम् ॥
प्रीणाति नाम तव वक्त्रमसर्वेदृष्ट-
मल्पाल्पपतिमिव पाणिपुटेन तोयम् ।
गणि -- भोस्तामिस्र• मुच्यतां मम वस्त्रान्तः ।
रामि – भवति किमिदम् ?
चेटी - 1 जदप्पहुदि वाळेण दट्ठा तदप्पहुदि असंबद्धं मंतेदि ।
रामि - एवम् ा
व्यक्तमस्या गतं चेतस्ततः शून्ये तपस्विनी ।
शरीरेऽन्येन केनापि सत्त्वयुक्तेन धषिता ।॥
(प्रविश्य वैद्यश्चेटी च )
चेटि - 2एदु एदु अय्यो ।
(प्रविश्य)
वैद्यः - 8 कहि सा ?
चेटी - 4 एसा खु अज्जुअा ण दाव सत्थट्टिदा धस्सिदा महासप्पेण
खादिदा भवे |
चेटी - .5 कहं अय्यो जाणादि ?
1 यदा प्रभृति व्यालेन दष्टा तदा प्रभृत्यसम्बद्धं मन्त्रयते ।
2 एत्वेत्वार्यः
8 कुत्र सा ?
4 एषा खलु अज्जुका न तावत् सत्वस्थिता धषिता महासर्पेण खादिता
भवेत् ॥
5 कथमायाँ जानाति ?