पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१८ भगवदज्जुकम्
श्यामां प्रसन्नवदनां मधुरप्रलापां-
मत्तां विशालजघनां वरचन्दनाद्रीँम् !
रकतोत्पलाभनयनi नयनाभिरामां
क्षिप्रं नयानि यमसादनमेव बाल[म् ।t
(गणिका पल्लवापचयं करोति)
' यम - अयं सन्दंशकालः |
गणि * -– l हं केण वि दट्ठह्मि ।
चेटी - (तरुशाखां विलोक्य) 2 अज्जुए (अम्मए) एसो असोअ पल्लवं
(कोटरं) तरिदो `वाळो ।
गणि - 3 हं वालो
(इति पतिता)
शाण्डि -- (उपगम्य) 4 भोदि किं एदं ।
चेटी ~- 5 अय्य एसा अज्जुअा वीळेण दट्टा ।
शाण्डि - 6 अविहा भो भअवं एसा गणिअादारिअा वाळेण दट्टा ॥
परि -- क्षी णेनास्याः कर्मणा (वा) भवितव्यम् । कुतः--
स्वकर्म भोक्तुं जायन्ते प्रायेणैव हि जन्तवः ।
क्षीणे कंर्मणि चान्यत्र पुनर्गच्छन्ति देहिनः ।
1 हं केनापि दष्टास्मि ।
2 अज्जुके एषोऽ शोकपल्लवा( कोटरा ) न्तरितो व्यालः ।
3 हं व्यालः ।
4 भवति किमिदम् ।
5 अार्य एषा अज्जुका व्यालेन दष्टा ।
6 अविहा । भो भगवन् एषा गणिकादारिका व्यालेन दष्टा ।