पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१० भगवदज्जुकम्
पश्यः कुतः-
अभ्यागतः किसलयाभरणो. वसन्त:
प्राप्ता शरत्कुमुदषण्डवि भूषणेति 1
बालो नवेष्वृतुषु रज्यति नाम लोके
यज्जीवितं हरति तत्किल रम्यमस्य ॥।
शाण्डि - 1 जं जदा रमणिज्जं तं तदा रमणिज्जं ति पुच्छदि ॥
परि - अपाण्डित्यमभिहितम् । पश्य-
अनागतं प्रार्थयतामतिक्रान्तं च शोचताम् ।
वर्तमानैरतुष्टानां निर्वाणं नोपपद्यते ।
शाण्डि - 2 अाअदमाणो पंथा ॥ णं कहिं दाणिं उपविसामो ।
परि -- इहैव वसिष्यावहे ।
शाण्डि - 3 अपोक्खं अपोक्ख |
परि -- मेध्यमरण्यमदूष्या भूः ।
शाण्डि - 4 जइ परिस्संतो उपविसदुकामो अपोक्खं पोक्खं वा करेसि ।
परि -- श्रुतिः प्रमाणं नाहम् कुतः --
अतिमानोन्मत्ताना-
महिते हितमिति कृतप्रतिज्ञानाम् !
नैवास्ति परं तेषां
स्वच्छन्दकृतभ्रमाणानाम् ।
1• यद्यदा रमणीय तत्तदा रमणीयमिति पृच्छ्यते । W
2. अायतमानः पन्थाः । ननुं कुत्रेदानीमुपविशामः ।
3. अपोक्षमपोक्षम् !
4. यदि परिश्रान्त उपविशतुकामः अपौक्षं पौक्षं वा करोषि ॥