पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

८ भगवदज्जुकम्
श्रूयन्ते । अत एवं ब्रूमः ।
शाण्डि -- 1सव्वं दाव तिट्रठतु तुमं दाव को ॥
परि - श्रृणु ॥
स्वपवनसलिलानां तेजसश्चैकदेशा-
दुपचितचलमूर्ति8 पार्थिवद्रव्यराशिः ।
श्रवणनयनजिहट्वानासिकास्पर्शवेदी
नर इति कृतसंज्ञः कोऽप्यहं प्राणिधमाँ ॥।
शाण्डि -- 2हाहा एत्तिअमत्तेण वि अत्ताणं वि णजाणादि ॥ कि पुण
अत्ताणं (विलोक्य) भो भअवं इदं उय्याणं ।
परि -- त्वं तावत्प्रविशाग्रतः । विविक्तशरणारण्यप्रतिश्रया वयम् ।
शाण्डि - 3 भअवो एव्व पुरदो विसदु । अहं पिट्ठदो पविसामि ।
परि -- किमर्थम् 1
शाण्डि - 4 होळाअणीए मम मादाए सुदं असोअपल्लवंतळणिळुद्धो वग्घो
पडिवसदि त्ति । ता भञ्अवं एव्व पुरदो प्रविसदु ।
परि - बाढम् ।
(प्रविशतः)
शाण्डि - 5 अविहा वग्घेण गहीदोह्मि मोचेइ मं वग्घमुखादो अणा हो
विअ वग्घेण खाइदम्हि इदं खु ळुहिळ पस्सवदि कठादो ।
1 सर्वतिष्ठतु । त्वं तावत्कः
2 हाहा एतावन्मात्रेणापि अात्मानमपि न जानाति किपुनरात्मानम् । भो
भगवन्निदमुद्यानम् ।
3 भगवानेव पुरतः विशतु । अहं पृष्ठतः प्रविशामि ॥
4 होलायन्या मम मातुः श्रुतम् । अशोकपल्लवान्तरनिरुद्धो व्याघ्रः
प्रतिवसतीति । तद्भगवानेव पुरतः प्रविशतु ।
5 अपिहा व्याघ्प्रेण गृहीतोe-स्मि । मोचय मां व्याघ्रमुखात् अनाथ इव
व्यात्रेण खादितोऽस्मि ॥ इदं खलु रुधिरं प्रस्रवति कण्ठात् ॥