पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम्
शााण्डि - 1 णं भूतत्थो अळीअं बंधअंति भअवो भणादि ।
परि - अथ किम् सत्यमनृतं चाभिसन्धाय कृतं बन्धकं भवति ।
कुतः --
यदा तु सङ्कल्पितमिष्टमिष्टत*
करोति कर्मावहितेन्द्रियः पुमान् ।
तदास्य तत्कर्मफलं सदा सुरैः
सुरक्षितो न्यास इवानुपाल्यते ।l
शाण्डि - 2 कदा णु खु तस्स फळ ळहदि ।
परि - यदां विरागमैश्वर्यं लभते तदा ।
शाण्डि -– 3 तपुण कहं ळहदि t
परि -- असङ्गतया I
शाण्डि - 4 भो भअवं किं पुण एदं असंगदं ति पुच्छदि t
परि -- रागद्वेषयोर्मध्यस्थाया (स्थता) कुतः ॥
सुखेषु दुःखेषु च नित्यतुल्यतां
भयेषु हर्षेषु च नातिरिक्तताम् ।
सुहृत्स्वमित्रेषु च भावतुल्यताम्
वदन्ति तां तत्त्वविदो हयसङ्गताम् ॥
शाण्डि - 5 किं एदं पुण अस्थि ।
1 ननु भूतार्थोऽलीकं बन्धकमिति भगवान् भणति ।
2 कदानु खलु तस्य फलं लभते t
8 तत्पुनः कयं लभते ।
4 भो भगवन् किं पुनरिदमसङ्गतेति पृच्छयतै ।
5 किमिदं पुनरस्ति ।