पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             
विदू—कदमं दाणिं अय्येण णाडअं (पअरणं) णाईअदि । [कतममिदानीमार्येण नाटकं (प्रकरणं) नट्यते ।]
सूत्र—अत्रैव मे चिन्ता । अथ तु नाटकप्रकरणोद्भवासु वारेहामृग
डिमसमवकारव्यायोगभाणसल्लापवीथ्युत्सृष्टिकाङ्कप्रहसनादिषु
(तेषु दशसु) नाट्यरसेषु हास्यमेव प्रधानमिति पश्यामि । तस्मात्प्रहसनमेव प्रयोक्ष्यामि ।
विदू—अय्य अहं हस्सेवि पहसणं णजाणे । [अार्य अहं हास्येऽपि प्रहसनं न जाने ।]
सूत्र—तेन हि शिक्ष्यतां भवान् । न शक्यमशिक्षितेन किञ्चिदपि ज्ञातुम् ।
विदू—तेन हि अय्यो एव्व मे उवादिसदु । [तेन ह्यार्य एव मे उपदिशदु]
सूत्र—बाढम् ।
ज्ञानार्थं कृतबुद्धिस्त्वं सन्मार्गेणानुगच्छ गच्छन्तम् ।
(नेपथ्ये)
शाण्डिल्य! शाण्डिल्य!
सूत्र—(श्रुत्वा) योगीश्वरं द्विजवृषं शिष्य इव मां परिव्राजम् ॥
(निष्कान्तौ)
॥प्रस्तावना॥ (अामुखम्)
॥ततः प्रविशति परिव्राजकः॥
परि—शाण्डिल्य! शाण्डिल्य! (पृष्ठतोऽवलोक्य) न तावद्दृश्यते । सदृशमस्य तमोवृतस्य । कुतः-