पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

॥श्रीः॥
भगवदज्जुकम्
॥बोधायनविरचितम्॥

ततः प्रविशति नान्द्यन्ते सूत्रधारः

सूत्र—त्वां पातु लक्षणाढ्यः
सुरवरमकुटेन्द्रचारुमणिघृष्टः ।
रावणनमिताङ्गुष्ठो
रुद्रस्य सदचितः पादः ॥
इदमस्मदीयगृहम् । यावत्प्रविशामि । (प्रविश्य) विदूषक! विदूषक! ।
विदूषकः—अय्य अअह्मि । [आर्य अयमस्मि]
सूत्र—विजनं तावत् यावत्ते प्रियमाख्यास्यामि ।
विदूषकः—अय्य तह । ( निष्क्रम्य, प्रविश्य ) अय्य विजणं गुहं इदं ।
पिअंदाव अय्यो अाचिक्खोदु । [आर्य तथा । आर्य विजनं गृहमिदम् । प्रियं तावदार्य आचक्षतु ।]
सूत्र—श्रूयताम् । अद्यास्मि बहिर्नगरादागच्छता अनेकसिद्धादेशजनितप्रत्ययेन लक्षणिना ब्राह्मणेनाहमादिष्टः । अद्य इतस्सप्तमेऽहनि तव राजकुले प्रेक्षा भविष्यति । ततस्त्वत्प्रयोगपरितुष्टेन राज्ञा दत्तां महतीं श्रियमवाप्स्यसीति । तस्य ब्राह्मणस्यामिथ्यादेशितया जनितोत्साहः । तत्सङ्गीतकं करिष्यामि ।