पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

V
मुखशोषश्च" इति श्लोक एकोe-त्रोदाहृतः ॥ तं च चरकशुश्रुतादिषु
द्रष्टुं न शक्नुमः । तदानीमप्यप्राज्ञा वैद्या अासन्नित्येतदत्रत्यं वैद्यहास्य-
मवगमयति । वेश्याशरीरे परिव्राजकप्रवेशमारभ्य प्रहसनमतिचतुरं
निव्र्यूढमितीह स्वारस्यग्रहणे सहृदयाः प्रमाणम् ॥
कथास्थानम्
अज्जुकाप्रश्ने चेटी ‘णअरं एव्व पविट्ठो अावुत्तो' इति वक्ति ॥
तत्र व्याख्याता नगरं पाटलिपुत्राख्यमिति व्याचष्टे ॥ युक्तं च तत् ।
यतो यमलोकमार्ग वर्णने यमपुरुषो गङ्गामुतीर्येत्युपक्रमते !
ग्रन्थोपलब्धिः
अस्य च चेन्नपुरीस्थप्राच्यलिखित पुस्तकशालायां विच्छायं दीप-
जुष्टं पुस्तकमेकमास्ते ॥ तदहमवलोक्य वर्षद्वयात् प्रागान्ध्रभाषयान्ववदम् ।
तच्च गते वत्सरे प्राकटयं च । तदानीमिदं मूलं । यथाशक्ति निर्दुष्टं
साधितम् । कथारम्भ एव "परिव्राजक* - न ताबद्दृश्यते । सदृशमस्य
तमोवृतस्य” इति वर्तितव्यस्थले “न तावददृश्यते सदृशमस्य तपोव्रतस्य
इति वर्तते । एवमादीन् बहून् दोषान् संस्क॒र्तुं प्राकृतस्य छायं च संकल-
यितुं तदानीमेव नूतनतया चेन्नपुरप्राच्यलिखितपुस्तकशालायां संम्पादितं
पूर्वोक्तं व्याख्यानमत्यन्तमुपाकरोन्मह्यम् ॥
कार्तज्यम्
प्रकटितं मदीयमान्ध्रानुवादमवलोक्य प्रहृष्टमना मन्मित्रं बहूनां
संस्कृतान्ध्रग्रन्थानां प्रकटनेन प्रख्यातयशाः सुगृहीतनामा ब्रह्मञ्श्री वाविळ्ळ
वेङ्कटेश्वरशास्त्री ' संस्कृतग्रन्थमपि प्रकटयितुं पर्युत्सुको मामचूचुदत् ॥
तदुत्साहानुरोधेन ग्रन्थमिममित्थं सोपाद्वातं बहिरवातारयम् । चेश्नपुरे
नाग॒राक्षरैरपि_ ब॒हूम् संस्कृतग्रन्थानु प्रकटयितुं प्रयतमानस्य मन्मित्रस्यास्य
सर्वंदा सङ्कल्पसिद्धि सङ्घटयतु सर्वेश्वर इत्याशासानः ।
विद्वद्विधेयः
वेदूरि प्रभाकरशास्त्री-