पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

IW
अविद्या गणिका माता मोहो रामिलको मतः ।
वैद्यौ हि कल्पसङ्कल्पौ कालस्तु यमपूरुषः ॥
एवं प्रेक्षामयं योगं युञ्जन्नर्तकतापसः ।
प्रत्यञ्चमच्युतं सद्यः साक्षात्कृत्य सुखी भवेत् ॥
व्यङ्ग्योऽयमान्तरार्थस्तथास्ताम् । वाच्ये बाह्यार्थ एव बहवो
धर्मा अत्र प्रतिपादिताः । फलाभिसन्धिरहितकर्मणामबन्धकत्वम्,
अन्तरात्मकर्मात्मभेदः, भोगास्थैर्यगर्हणम्, प्रामाण्यनिरूपणम्, अध्ययनावश्यकतास्थापनम्, योगप्रशंसा, स्वधर्मजिज्ञासा, परधर्मजिहासा, इत्यादि । अन्यदपि महत् प्रयोजनमस्य प्रहसनस्य क्री-षष्ठशताब्द्याः प्राग्भारतवर्षे बौद्धमतस्य महानासीत् प्रचारः । प्रत्यक्षानुमाने एव प्रमाणतयाङ्गीकृत्य भूतदयामेव परमार्थतया प्रतिपादयद्बौद्धमतमक्लेशेन लोकानावर्जयति स्माशब्दमपि प्रमाणमङ्गी कृत्याप्रत्यक्षानाध्यात्मिकार्थान् निरूपयतां दर्शनमतानां
तदा महानुपप्लव अासीत् ॥ इतः पञ्चाशद्वत्सरेभ्यः प्राक् क्रैस्तवीयाः
प्रवचनरीतयः प्रासादाश्च यथा भ्रामयन्ति स्म पामरान् तथा तदा बौद्धानां प्रवचनानि स्तूपाः सङ्घारामाश्चाभ्रामयंस्तादात्विकान् ।बौद्धमतनिर्मुलनायास्तिका नाम वैदिका बहून् ग्रन्थांस्तदारचयन् । नास्तिकानिति शब्दप्रमाणमनङ्गीकुर्वाणान् बौद्धानगर्हयंश्च । तदा प्रहसनमिदं प्रवृत्त्मासीत् ।
अस्मिन् शाण्डिल्यो नाम शिष्यो बौद्धमते व्यामोहेन प्रविष्टो भ्रष्टः संवृत्तः । अप्रत्यक्षानर्थानयं न विश्वसिति । शब्दं प्रमाणं नाङ्गीकरोति । मृष्टं भोजनमेव चिन्तयति । भूतदयेत्यप्रयोजकमनुतापं दर्शयन् म्रियमाणां
वेश्यामुपचरितुमुत्साहते । निवारयन्तमाचार्यं च निन्दति । एवम्[दिविधां
बालिशतां प्रकटयन्तं शिष्यमतिशान्तः परिव्राजकः समबोधयत् ॥
प्रहसनमिदं पठन् प्रयोगे वा पश्यन् जनो बौद्धमते पराङ्मुखो नूनं भवेदिति
वक्तुं शक्नुमः ॥ कविरिह बौद्धमतं तथा सम्यक् पर्यहसत् । योगदर्शनमिह
परमार्थसाघकं प्रतिपादितम् । महेश्वरादयो योगाचायाँ इह स्मृताः । अत्र
"अष्टौ प्रकृतयः” इत्यादिकमेकं वाक्यं साड्खच्यदर्शनगतमिति समुद्धृतम् ।
तदधुनोपलभ्यमानेषु , साड्खचदर्शनग्रन्थेषु द्रष्टुं न पारयांमः ॥
बौद्धपिटकंपुंस्तकेभ्यः **अदण्णादाणादो” इति च वाक्यमेकमुदाहृतम् ।
तदधुनाe-पि बौद्धैः प्रत्यहं पठघमानमस्तीति श्रूयते । अपि च ** रोमाञ्चो