पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

III
स च सिङ्गभूपालश्चतुर्दशतम ( १४ ) शताब्द्यामासीत् । न तत्र कश्चिद्विशेषः । यदिमं ग्रन्थं काञ्चीपुरे क्री - सप्तमशताब्द्यारम्भे महेन्द्रविक्रमवर्माख्यः पल्लवराजः मामण्डूरुशिलाशासने नाम्ना पर्यजीगणत् ।+ तच्च शिलाशासनमधुनातिशिथिलमस्पष्टंचोपलभ्यते ।

महेन्द्रविक्रमवर्मा विद्याविशारदः स्वयं मत्तविलासं नाम प्रहसनमरीरचत् । तस्मिन् शिलाशासने मत्तविलासोऽपि नाम्ना परिगणितो दृश्यते । उपलब्धं तच्च प्रहसनमनन्तशयनग्रन्थमालायां प्रकटितमधुना । महेन्द्रविक्रमवर्मणैव मत्तविलासवदिदमपि प्रहसनं प्रायो रचितं स्यादित्यूहितुमप्यस्त्यवकाशः । यतः प्रहसनद्वये रचनासाम्यम्, बौद्धमतपरिहासश्च परिदृश्यते । तथापि व्याख्यात्रा मूलग्रन्यस्य बोधायनकर्तृकत्वोक्तिः, सुकुमारकविप्रभृतिभिः कविभिर्बोधायनस्य कविषु प्रस्तुतिश्च तमूहं बाधयतः । बोधायनो वा महेन्दविक्रमवर्मा वा अन्यो यः कोऽपि वा भवत्वस्य प्रहसनस्य कर्ता । स तु क्री-सप्तमशताब्द्यारम्भात् प्रागेवाऽसीदिति मामण्डूरुशासनं सम्यङ्निरूपयति ।

ग्रन्थार्थः

प्रहसननाममात्रश्रवण एव तुच्छैर्जुगुप्सितैर्ग्राम्योक्तिभिः कलुषितं लम्बोदरप्रहसनादिकमनुस्मृत्य प्राज्ञा अस्मात् पराङ्मुखा भवेयुर्वेत्यहं बिभेमि । नैतत् प्रहसनं तथाविधम् । हास्यमस्मिन् हृदयहारि । तच्च हास्यमपातमात्रहृद्यमेव न । अालोचनामृतमध्यात्मतत्त्वबोधकं च सन्माहान्तमानन्दमुत्पादयदास्ते, हास्यच्छलेनाध्यात्मतत्त्वबोधने कविरिहासाधारणं चातुर्यमदर्शयत् । व्याख्याता च प्रहसनमिदं प्रत्यक्षरं योगदर्शनपरतया अान्तरार्थसहितमाचष्टे । यथा च

अस्मिन् नाट्यरसे निसर्गगहने योगीन्द्रशिष्यावुभा-
वात्मनौ परजीवभेदकथितावन्या तथैवाज्जुका ।
मूलाधारसमुद्गता नाडी सुषुम्ना परे
चेट्यौ चोभयपार्श्वगे ससुषिरे नाड्याविडापिङ्गले ॥

+ सौत् iv वाल्यूम् । तत्र “मगवदज्जुकम्" इति परिशोधकैः पठितम् । शासनशोधकशालायामधिकरणान्यतमः श्रीमान् सरस्वती रंगस्वाम्याचार्यः 'भगवदज्जुकम्' इत्येव पठितव्ममिति वक्ति-