पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             
भगवद्रामानुजार्यैः स्वकृतब्रह्मसूत्रभाष्यस्य मूलभूततया प्रस्तुताया
वृत्ते रचयिता बोधायनः, कल्पसूत्रादिकर्ता बोधायनः, इति द्वौ बौधायनौ
श्रूयेते । तयोः पार्थक्यमैक्यं वा वक्तुं वयं न पारयामः । तत्र विष्णुपारम्यं
प्रपत्तिप्राधान्यं च निरूपयतो भगवद्रामानुजस्य सिद्धान्तमुज्जीवयन्
वृत्तिकरो बोधायनः प्रहसनस्यास्य कर्ता न भवेदिति मम निश्चयः ।
यदस्मिन् प्रहसने "त्वां पातु... रुद्रस्य सदर्चितः पाद:" इति ग्रन्थोपक्रमः ।
न चास्मिन् ग्रन्थे शान्तिकपौष्टिककर्मप्राधान्यमपि प्रतिपादितम् । तदयं
बोधायनः पूर्वोक्ताभ्यां महर्षिभ्यामन्य एव स्यादिति वक्तुमुचितम् ।
कवयः कतिचन बोधायनं कविमस्तुवन् । यथा रघुवीरचरितनाटके
सुकुमारकविः—

यैर्बोधायनसूक्तिपुष्पकलिकाः कर्णावतंसीकृता
येषां बिल्हणसूक्तिमौलिकसराः कण्ठानलड्कुर्वते ।
माधुर्यैकभुवां मुरारिवचसामस्वादि यैः स्वादिमा
सन्तुष्यन्ति त एव नूतनसुधावेणीषु वाणीषु नः॥

ग्रन्थप्राचीनता

रेचर्लसिङ्गभूपालो रसार्णवसुधाकरे भगवदज्जुकस्यास्यास्मरत् ★॥


★ शुद्धं कीर्णं वैकृतं च तच्च प्रहसनं त्रिधा ।
शुद्धं श्रोत्रियशाखादेर्वेषभाषादिसंयुतम् ॥
चेटचेटीजनव्याप्तं तल्लक्ष्यं तु निरूप्यताम् ।
अानन्दकोशप्रमुखं तथा भगवदज्जुकम्
कीर्णं तु सर्वेर्वीथ्यङ्गैः सङ्कीर्णं धूर्तसङ्कुलम् ।
तस्योदाहरणं ज्ञेयं बृहत्सौभद्रकादिकम् ॥
यच्चेदं कामुकादीनां वेषभाषादिसङ्गतैः ।
षण्डतापसवृद्धाद्यैर्युतं तद्वैकृतं भवेत् ॥
कलिकेलिप्रहसनप्रमुखं तदुदाहृतम् ।

श्लोका इमे अनन्तशयनग्रन्थमालायां प्रकटिते रसार्णवसुधाकरे
न दृश्यन्ते । सिंगभूपालवंश्यैर्वेङ्कटगिरिराजभिः पूर्वमान्ध्राक्षरैः मुद्रिते
पुस्तके तालपत्रकोशेषु च दृश्यन्ते ।