पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

उपोद्घातः

भगवदज्जुकनामकस्यास्य प्रहसनस्य प्रणेता कविः स्वनाम नैवावेदयति । परंत्वस्य व्याख्याता कश्चन (अयं कोऽपि केरलदेशीयः स्यात् पूर्णसरस्वती ? उत, नारायणः?)मूलकार इव स्वनाम नावेदयन्नपि तं मूलकारं बोधायनं व्याचष्टे । यथा अादौ-

बोधायनकविरचिते भगवदज्जुकाभिहिते ।
अभिनेयेऽतिगभीरे विशदानधुना करोमि ग्रन्थार्थान् ॥

अन्ते,
इति प्रहसनाभिख्ये पूर्वनाट्यनिबन्धने ।
हास्यग्राहिततत्त्वार्थे टीका दिक्तत्त्वदर्शिनी ॥

क्वचिदेवमपि,
बोधायनकविरचितं बोधायतनं विमुक्तिशास्त्राणाम् ।
प्रहसनरत्नं प्रत्नं भवतु मुदे भगवदज्जुकीयं वः॥

कोऽयं बोधायनः ?

पाणिनिवररुच्यादयो मुनयः केचन न केवलं शास्त्रकारा एव । परंतु काव्यकर्तारश्चेति निश्चीयते विमर्शकैराधुनिकैः । कवयश्च प्राचीनाः कतिचन तान् कवीनस्तुवन् । तत्तद्ग्रन्थेभ्यश्च कांश्चन श्लोकान् प्राचीनालङ्कारिकाः समुदाहरन् । ततद्ग्रन्थांश्च कतिचनाधुनोपलभामहे वयम् । यथा वररुचिरचितमुभयाभिसारिकमधुना सम्पादितं प्रकटितं च । महर्षिबोधायनोऽप्येवं प्रहसनकर्ता भवितुमर्हति |पादताडितके श्यामिलक एवं वक्ति-

न प्राप्नुवन्ति यतयो रुदितेन मोक्षं
स्वर्गायतिं न परिहासकथा रुणद्धि ।
तस्मात् प्रतीतमनसा हसितव्यमेव
वृत्ति बुधेन खलु कौरुकुचीं विहाय ।