६० आश्वलायनगृह्यसूत्रभाष्यम् उत्तरपूर्वदेशे सौविष्टकृतं जुहोति ।। २० ।। . मध्यात् पूर्वार्धाच्च हविषोऽवद्यति ।। २१ ।। हविषो मध्याच्च पूर्वार्धाच्चावद्यति ।। २१ ।। मध्यात् पूर्वार्धात् पश्चार्धादिति पञ्चावत्तिनाम् ॥ २२ ॥ पञ्चावत्तिनामयमवदानक्रमो भवति । तत्र पश्चार्धाच्चेति वक्तव्यम् । एवमुच्यमाने सिध्यत्यर्थः । क्रमो न सिध्येत । प्राक्संस्थतो- दक्संस्थता नियमात् । तेन क्रमार्थमिदं वचनम् । कथमनेन क्रमेणावदानानां ग्रहणं भवतीत्यतो वचनमारभ्यते ।। २२ ।। उत्तरार्धात् सौविष्टकृतम् ॥ २३ ॥ उत्तरार्धात सौविष्टकृतमवदानमवद्यति । अथान संशयः । विवक्षितमेकवचनमविवक्षितमिति । उच्यते । विवक्षितमेकवचनम् । कस्मात् । उपदशात् । एवं सति विवक्षिते एकवचने दोषः प्राप्नोति । को दोष: । चतुरवत्तिनां व्यवत्तता प्राप्नोति । कथम् । उपस्तरणमवदानं प्रत्यभिवारणमिति । नायं दोषः । द्विः प्रत्यभिवारणं करिष्यते । एवमपि पञ्चावत्तिनां चतुरवत्तता प्राप्नोति । नैष दोषः । तत्रापि त्रिः प्रत्यभिधार्यते । तच्च न । कस्मात् । विरभिघारणस्याविहितत्वात् । तेनैष दोषः प्राप्नोति एकवचने प्रतीयमाने । तस्मात् सौविष्टकृतमिति जातिवाचकोऽयं निर्देशः । तस्मादुत्तरार्धभागाद्धविष: पूर्वोक्तेनावदान - धर्मेण स्विष्टकृतो ह्यवदानानि ग्राह्याणि ॥ २३ ॥ 1 पञ्चावत्तीनाम् -- B. 2 सिध्यत्ययमर्थः - A, C, D. omit this sentence. 4 विरभिघारणं भवति --- A, C, D. वाचिनो - C; अयं omitted in A, D. 3 A, C, D 5 जाति-
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/९९
दिखावट