सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ आश्वलायनगृह्यसूत्रभाष्यम् प्राप्नोति । तथा दृष्टत्वात् । नेत्युच्यते । इह स्थालीपाकेनैव होम: कर्तव्यः । सांनाय्याभावात् । अथोपांशुयाजस्यापि चरुः प्राप्नोति । नेत्युच्यते । आज्येनैवोपांशुयाजः कर्तव्यः । कस्मात् । आज्यस्य विद्यमानत्वात् ।। ५ ।। तस्यैतस्यै देवतायै चतुरश्चतुरो मुष्टीन् निर्वपति पवित्रे अन्तर्धायामुष्मै त्वा जुष्टं निर्वपामीति ॥ ६ ॥ तस्यै तस्या इति वीप्सा क्रियते । चतुरश्चतुर इत्येषापि । मुष्टीन् निर्वपति | परिमाणार्थी निर्देश: । निर्वपतीति किया चोद्यते । पवित्रे प्रागुक्ते । ते अन्तर्धा अमुष्मै त्वा जुष्टं निर्वपामीत्यनेन मन्त्रेण । तत्तामुष्मा इति स्थानविभक्त्यर्थो निर्देशः ॥ ६ ॥ ॥७॥ अथैनान् प्रोक्षति यथानिरुप्तममुष्यै त्वा जुष्टं प्रोक्षामीति अथशब्दः प्रयुज्यते । कथं सर्वेषु निरुप्तेषु प्रोक्षणं स्यादिति । ते तु निर्वणोक्षणे एकस्मिन्नेव पात्रे भवतः, न नानापात्रयोरिति । कुत एतत् । उत्तरत्र विभागदर्शनात् । यथाशब्दः प्रकारवाची । येन प्रकारेण निर्वापः कृतः तेन प्रकारेण प्रोक्षणमपि कर्तव्यम् । केन पुनः प्रकारेण निर्देपणं कृतमिति । तस्यै तस्यै चतुरश्चतुरः पविते अन्तर्धायेति । प्रोक्षणेऽपि समोऽयं विधिः प्रसज्यते ।। ७ ।। अवहतांस्त्रिष्फलीकृतान् नाना श्रपयेत् ॥ ८ ॥ क्रियेत -- C. 1 Lacuna in A, C, D. 4 प्रसज्येत --- A. 2 स्थाने — B. 3 क्रियते--A, D;