सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्त्यपि वा ॥ २ ॥ प्रथमोऽध्यायः पत्नी वा परिचरेत् । यथा परिचरणं तदुक्तम् ॥ २ ॥ पुत्रः कुमार्यन्तेवासी वा ॥ ३ ॥ ५१ अथवा पुत्रादयः परिचरणक्रियां कुर्वन्ति । अन्तेवासीति शिष्य उच्यते । अन्ये पुनरन्यं ब्रुवते ॥ ३ ॥ नित्यानुगृहीतः स्यात् ॥ ४ ॥ अनुशब्दोऽयं परिशब्दस्य स्थाने द्रष्टव्यः । नित्यं परिगृहीतः स्यादिति । एतदुक्तं भवति । तत्र यजमानस्य पत्न्या वा समीपे कथमस्य नित्यं स्थानं स्यादिति । यजमानेन पल्या वा नित्यं परिगृहीतः कथं स्यादिति । अथवा होष्यद्धर्माणां प्रतिष्ठापनान्तानां कथमभ्यासो न स्यादित्येतदर्थं वचनमारभ्यते । कथं वा प्राप्नोति । अथ खलु यत्र क्वच होष्यन् स्यात् ' ( १ ३ १ ) इति वचनात् । अथाहरहरेते धर्माः प्राप्नुवन्ति । होमसंयोगात् । देशान्तरगमने वा देशसंस्कार इति कृत्वा प्रवृत्तिः स्यात् । तन्निवृत्यर्थं वचनमारभ्यते । नित्यं सकृदेव परिगृहीतो भवतीति ॥ ४ ॥ " यदि तूपशाम्येत् पन्त्युपवसेदित्येके ॥ ५ ॥ यदि खलूपशाम्येत पल्या उपवासो भवतीत्येके आचार्या मन्यन्ते । अन्ये पुनर्यजमानस्यैवेच्छन्ति । तन्न । कथं ज्ञायते । यदि तूपशाम्येदुपवसेत् पत्नीत्येके इत्येवं वक्तव्ये यदेवं ब्रूते । तेन यजमानस्य 1 तत्र — added in B. 2 नित्य: - - A, C, D. 8 उपशाम्येत्-- A, C.