सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ आश्वलायनगृह्यसूत्रभाष्यम् होम : स्यान्न स्वाहाकारान्तेनेति । यत्र प्रत्यृचग्रहणं नास्ति तत्र स्वाहा- कारान्तेन होमः प्राप्नोति । तेन क्वचिदादेशेन होमः स्यादिति । नैतदस्ति' यत्र वचनं तत् परीक्ष्य क्रियते । समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्रतिप्रयच्छेत्, तत्र संशयः । किमयं प्राशनमन्त्र आहोस्वित् प्रदानमन्त्रः । उच्यते । उभयार्थः । यद्युभयार्थः अभ्यासः प्राप्नोति । उच्यते । न भवत्य- भ्यासः । कस्मात् । उभयलिङ्गत्वान्मन्त्रस्य । यथा द्वार्ययोरभिमर्शन- मन्त: सकृदेव प्रयुक्तः सन्नुभयार्थी भवति तद्वदिहापीति । स्वयं प्राश्य पश्चात् प्राशनार्थं तस्याः प्रयच्छेदिति ॥ ६ ॥ आज्यशेषेण वानक्ति हृदये ॥ १० ॥ अथवा आज्यशेषेण हृदये अनक्ति । न पूर्वं कर्म करोति चेद्धृदये * अनक्ति आत्मनस्तस्याश्चानेन मन्त्रेण ।। १० ।। अत ऊर्ध्वमक्षारलवणाशिनौ ब्रह्मचारिणावलंकुर्वाणावध:- शायिनौ' स्याताम् । त्रिरावं द्वादशरात्रं संवत्सरं बैंक ऋषिजयत इति ॥ ११ ॥ अत ऊर्ध्वमिति । अनेनातः शब्देन किं निर्दिश्यते । गृहप्रवेशनीयस्य निर्देश: । प्रकृतत्वात् । तेन गृहप्रवेशनीयादूर्ध्वमेषा व्रतचर्या भवति । यद्येवं दोषः । प्राग् गृहप्रवेशनीयादेतानि व्रतानि न प्राप्नुवन्ति । इष्यन्ते च । तस्मान्नायमर्थः । एवं तहि अतः शब्देन विवाहो निर्दिश्यते । ननु च व्यवधानाद् गृहप्रवेशनीयेन तस्य निर्देशो नोपपद्यते । नेत्युच्यते । विवाह एव प्राधान्येन प्रकृतः । गृहप्रवेशनीय: प्रसङ्गेनोक्तः । तस्माद् ३ प्रयच्छति-- 5 A, C, D omit अलंकुर्वाणौ. A, C, D. 1 नैवास्ति - A, C, D. 4 द्वे हृदये ---- A, C, D. 2 द्वयो: - A, C, D. 7 गृहप्रवेशनीयं --~-B. 6 इष्यते-- A, C, D. 8 उक्तम् — B.