४० आश्वलायनगृह्यसूत्रभाष्यम् I गम्यते । अविच्छिन्दतीति स्त्रीलिङ्गनिर्देशात् । कथं वान्यथा स्यात् । अविच्छिन्दन्नञ्जलिमिति । अथ मन्त्राः कस्य भवन्ति । तत्रैके वध्वा एवे- च्छन्ति । कस्मात् । सा हि जुहोति । तस्मात् सा संबध्यते । मन्त्रलिङ्ग- दर्शनाच्च । 'कन्या अग्निमयक्षत' इति । नेत्युच्यते । वध्वाः मन्त्रो न भवति । कुतः । अनधिकारात् । नहि स्त्री मन्त्रेऽधिक्रियते । अधिक्रियत इति ब्रूमः । कथम् । यथा पत्नीवाचनादिषु । तत्र तु वचनाद् भवति । इह तु संदिग्ध - त्वान्मन्तस्य वरस्यैव मन्त्रैर्भवितव्यम् । प्राधान्याच्च । यच्चोक्तं लिङ्गदर्श- नादिति । तत्र लिङ्गं नोपपद्यते । नासौ कन्याशब्द एतां कन्यामभिवदति । अस्याः कर्माण्यभिधीयन्ते । तेन वरस्यैवैतैर्मन्त्रैर्भवितव्यम् । लिङ्गदर्शनाच्च पश्यामो यथा वरस्यैवैते मन्त्रा भवन्तीति । किं दर्शनम् । परोक्षवन्मन्त्र- निर्देश: । 'स इमां देव:' इति । यदि वध्वाः मन्द्राः स्युः ' स मां देवः इत्येवं स्यात् । तस्मात् वरस्यैवैते मन्त्रा भवन्तीत्येतत् सिद्धम् ॥ १३ ॥ अपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् ॥ १४ ॥ } ततः परिणयनमकृत्वेत्यर्थः । एवं चेदपरिणीयेति वचनमपार्थकम् | कस्मात् । परिणयनस्याप्राप्तत्वात् । परिणयनं हि विनिर्दिष्टम् । तेनेह नैव भविष्यति । एवं सिद्धे यदपरिणीयेत्याह तज्ज्ञापयति-शूर्पपुटेन होमं कृत्वा परिणयनं चतुर्थममन्त्रकं भवतीति । एवं तावदेकै प्रतिपन्नाः । नेत्येके । कः पुनरस्यार्थोऽपरिणीयेति । अयमर्थः पूर्वं होमात् परिणयनं * कथं स्यादिति । कथं वा न प्राप्नोति । त्रीणि परिणयनान्यनन्तराणि चोक्तानि यथा चोदितान्येव स्युः । तथा वयो होमा अनन्तरमाम्नाताः । तेषां च तथैव क्रिया प्राप्नोति । न चेष्यते । न च व्यवधानकारणमन्य- दस्ति । तेन कथं परिणीय परिणीय होमः स्यादित्येतदर्थमप्राप्तं परिणयनं 1 परोक्षवान्--A. परिणयनात् --- A. 2 यथा- A. 3 अन--3. 4 होम |
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/७९
दिखावट