र प्रथमोऽध्यायः ३६ यथा---' मध्यात् पूर्वार्धाच्च हविषोऽवद्यति' (१.१०.२१ ), तथा - अवदानसंपदा जुहुयात्' (आ० श्र० २. ६.१२ ) इत्येवमादिषु । अथाभिघारणप्रत्यभिघारणे कः करोति । भ्राता करोति । कस्मात् । अधिकृतत्वात् । समानकर्तृवन्निर्देशाच्च । नेत्युच्यते । यदि हि भ्राता कर्ताभिप्रेतः स्याद् भ्रातरमधिकृत्योपस्तरणं चोदयेत् । यस्मादुपस्तरणादु- त्तरकालं भ्राता चोद्यते तस्माद् भ्रातुरकर्तृत्वम् । भ्रातुः कर्तृत्वं यतै - वोपदिष्टं तत्रैव भवति । एवं तहि आचार्यः कर्ता प्रसज्येत । असावपि नोपपद्यते । कस्मात् । आचार्येणासौ विसर्जितः सन्नेतत् करोति । एवं तर्हि स्वयमेव वरः करोति । तस्यापि" कर्तृदा नोपपद्यते । कस्मात् । उप- रिष्टादन्यं कर्तारं दर्शयति-- ' उदकुम्भेनावसिच्य ' -- (१.७.२१ ) इति । स्वयंकर्तृत्वे सत्यवसेचनं न शक्यते कर्तुम् । नेत्युच्यते । तत्रोदकुम्भशब्द उदकुम्भस्थे उदके वर्तते । तेन तत्त्रस्थेनोदकेनावसेचनं कर्तव्यम् । तस्माद् वर एव कर्ता भवतीत्येतत् सिद्धं भवति ।। १२ ।। 3 ' अर्यमणं न देवं कन्या अग्निमयक्षत | स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः 'स्वाहा || ' वरुणं न देवं कन्या अग्निमयक्षत | स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः ' स्वाहा ॥ पूषणं तु देवं कच्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः ' स्वाहा || इत्यविच्छिन्दत्यञ्जलि स्रुचेव जुहुयात् ॥ १३ ॥ अर्यमणं नु देवमित्यादिभिर्मन्त्रैर्लाजान् जुहोति । कथं जुहोति । अविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात् । अथ को जुहोति । वधूर्जुहोति । कथं I 1 यत्नोपदिष्टं -- B. स्वयं कर्तुकत्वे - A, C, D. 2 अथ - - A, C, D. 3 तस्मिन्नपि - Bo
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/७८
दिखावट