३८ आश्वलायनगृह्यसूत्रभाष्यम् प्रत्यभिधार्य हविः ॥ १० ॥ तवायं हविः शब्दः क्व वर्तते । किमवदाने उत शेष इति । तन केचिदवदाने कल्पयन्ति । केचिच्छेषे । तत्र शेष उपपद्यते । नावदाने । कुत एतत् । दर्शनात् । किमिदं पुनर्दर्शनमिति चेत् । स्विष्टकृति वक्ष्यति - 'नात हवींषि प्रत्यभिघारयति' ( १ १०. २५) इति । तेन हविः शब्द: शेषे वर्तते । नावदाने । नैतदुपपद्यते । कस्मात् । हविःशब्दस्य साधारण- त्वात् । तत्रापि हविः शब्दः साधारण एव । तेन संशय एव' | नेति ब्रूमः । अवदानस्यानभिधारणे दोष उपपद्यते । को दोषः । चतुरवत्त- भेद: । तेन तत्र प्रत्यभिवारणप्रतिषेधः शेषस्यैव भवति । नावदानस्य । एवं चेत् तस्मादिहापि शेषस्य प्रत्यभिधारणं प्रथमं भवति पश्चाद- वदानस्येति ॥ १० ॥ अवत्तं च ॥ ११ ॥ अवत्तं चेति । प्रत्यभिधायें । अवत्तमवदानमित्युच्यते । ये पुनर्योग- विभागं कुर्वन्ति --- प्रत्यभिवार्येति एवं छिद्यमाने सूत्रे पूर्वमवदानस्य सिद्ध भवति प्रत्यभिघारणम् । हविश्चेति हविष: पश्चात् प्रत्यभिघारणं प्राप्नोति । एवं चावत्तग्रहणमपार्थकं संपद्यते । तस्मान्नैवायं योगविभागः कर्तव्यः ॥ ११ ॥ एषोऽवदानधर्मः ॥ १२ ॥ सूत्रप्रकरणमुपजीवन्नाचार्य इमां परिभाषां करोति-- एषोऽवदानधर्म इति । अवदानचोदनायां सत्यां कथमयं धर्मः स्यादिति । क्व पुनरिष्यते । 1 एव omitted in B. in A, C. 4 भवति — B. 2 भेदात् - A, C, D. 3 प्रथमं omitted तत्र प्रकरण— B.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/७७
दिखावट