३६ आश्वलायनगृह्यसूत्रभाष्यम् अङगुलीरेव स्त्रीकामः ॥ ४ ॥ अङ्गुलीषु हस्तं गृह्णीयादिति स्त्रीकामश्चेद् भवति । हस्तग्रहणे प्रज्ञाप्यमाने तत्र मन्त्रस्याधिकारो भवतीति प्रज्ञापितं भवति ॥ ४ ॥ रोमान्ते हस्तं साङ्गुष्ठमुभयकामः || ५ || पुत्रकाम: स्त्रीकामश्च ।। ५ ।। प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयत् जयति । ' अमो- ऽहमस्मि सा त्वं सा त्वमस्यमोऽहम् । द्यौरहं पृथिवी त्वं सामा- हमुक् त्वम् । तावेह विवहा है प्रजां प्रजनयावहै । संप्रियों रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतम् ' इति || ६ || उदकुम्भग्रहणं शक्यमकर्तुम् । यथैवान्येषां यज्ञपात्राणां प्रादक्षिण्यं भवति, एवमुदकुम्भस्यापि । तस्मात् परिसंख्यार्थमिति वर्णयन्ति । उदकुम्भस्यैव प्रादक्षिण्यं भवति नान्येषां यज्ञपात्राणाम् । अन्येषां तु प्रयोजनम् -- विवाहं प्रति यदन्यत् प्रतिविशिष्टवद्रव्यं तस्य वहिष्करणं यथा स्यादिति । किं पुनस्तत् । दृषदित्युच्यते । त्रिःपरिणयन् जपतीत्येतद् विचारयिष्यामः । किं त्रिर्जपति परिणयन् आहोस्वित् तिः परिणयन् जपतीति । किं चातः । यदि तावत् निर्जपति परिणयन्नित्येव कल्प्यते तेन त्रिर्जप: सकृच्च परिणयनं प्राप्नोति । अथ चेत् त्रिः परिणयन् जपतीति । एवं त्रिः परिणयनं सकृन्मन्त्रः प्राप्नोति । उभयथा दोषः । एवं तहि कथमस्तु । त्रिः परिणयनं त्रिर्जप इति । कथमेतद् गम्यते । अनेकं तावत् परिणयनं दर्शयति परिणीय परिणीयेति । यावच्च परिणयनं तावच्च 2 ज्ञापनार्थम्---A. * प्रदक्षिणं- 1 यद्यन्येषां -- A, C, D. A, C, D.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/७५
दिखावट