لله ३२ आश्वलायनगृह्यसूत्रभाष्यम् अधन्या भवतीति विद्यात् । इरिणमित्यूषरमुच्यते । यत्रौषधयो न प्ररोहन्ति तदिरिणम् । श्मशानादाहृतं पिण्डं' [ यदि ] गृह्णीयात् पतिघ्नीति' विद्यात् । पति हन्तीत्यर्थः ॥ ६ ॥ इति प्रथमे पञ्चमी कण्डिका अलंकृत्य कन्यामुदकपूर्वा दद्यादेष ब्राह्म विवाहः । तस्यां जातो द्वादशावरान् द्वादश परान् पुनात्युभयतः । ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स देवः । दशावरान् दश परात् पुनात्यु- भयतः । सह धर्मं चरतम् इति प्राजापत्यः । अष्टावरानष्ट परान् पुनात्युभयतः । गोमिथुनं दत्त्वोपयच्छेत स आर्षः । सप्तावरान् सप्त परान् पुनात्युभयतः । मिथः समयं कृत्वोपयच्छेत स गान्धर्वः । धनेनोपतोष्योपयच्छेत स आसुरः । सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः । हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्धयो हरेत् स राक्षसः ॥ १ ॥ अलंकृत्य कन्यामुदकपूर्वी दद्यादित्येवमादयोऽष्टौ विवाहा वेदि- तव्याः । तत्र पूर्वे चत्वारो विवाहास्तेषां पूर्वः पूर्वः प्रशस्तः । उत्तरे चत्वार उत्तरोत्तरे पापीयांसः । अथ किं सर्वेषां सर्वे भवन्ति, आहोस्वि- नियमोऽस्तीति । अस्ति केषांचिन्नियमः । पूर्वौ तावद् ब्राह्मणस्य भवतः । किं कारणम् । इतरयोः प्रतिग्रहाभावात् । ऋत्विक्त्वाभावाच्च । गान्धर्वः क्षत्रियस्य, राक्षसश्च । कथं ज्ञायते । युद्धसंयोगात् । गान्धर्वस्य पुरा दृष्ट- त्वात् । आसुरस्तु वैश्यस्य । कस्मात् । धनसंयोगात् । अन्ये नयोऽनियताः । हेत्वभावात् । तेन त्रयाणामपि भवन्तीति ।। १ ।। इति प्रथमे षष्ठी कण्डिका 1 हृत्वा -- A, C, D.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/७१
दिखावट