३० आश्वलायनगृह्यसूत्रभाष्यम् । प्रयोजनमग्रेग्रहणस्य । कथं पुनस्तत् परीक्ष्यं कुलम् । तदुक्तं पुरस्तात् 'ये मातृतः पितृतश्च - - ' (आ० श्र० ६ ३.२० ) इति ॥ १ ॥ अथ वरगुणा विधीयन्ते---- बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥ तत्र बुद्धिमत इति बुद्धिमत्तरायेत्यर्थः । का पुनर्बुद्धिः । यार्थदर्शिनी । कोऽर्थः । यः शास्त्राविरुद्धः ॥ २ ॥ एवं वरगुण उक्तः । कन्यागुणो वक्तव्यः । बुद्धिरूपशीललक्षणसंपन्नामरोगामुपयच्छेत ॥ ३ ॥ बुद्धिर्व्याख्याता । रूपमिति । रोचनीयं तु रूपम्, यत्र हि मनो रमते । 'लक्षणैः संपन्ना लक्षणसंपन्ना तां लक्षणसंपन्नामुपयच्छेत ।। ३ ।। तत्र तु लक्षणानां बहुत्वात् तस्य शास्त्रस्य दुरवगाहत्वात् तेनाचार्य उपदेशतः स्वयमेव लक्षणोपायं शास्ति- दुर्ज्ञेयानि लक्षणानि अष्टौ पिण्डान् कृत्वा --- ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितम् । यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यताम् । यत् सत्यं तद् दृश्यताम्' इति पिण्डानभिमन्त्य कुमारों ब्रूयादेषामेकं गृहाणेति ॥। ४-५ ।। दुर्ज्ञेयत्वाल्लक्षणोपायं शास्ति । कः पुनरसावुपायः । ऋतमग्र इत्यनेन मन्त्रेण पिण्डानभिमन्त्र्य कुमारीं ब्रूयात्-- एषामेकं गृहाण --- गुणै: संपन्ना गुणसंपन्ना added in A. 3
- लक्षणैरुपसंपन्ना लक्षणोम-
संपन्ना तो लक्षणोपसंपन्नाम् - B. उभयत्वात् ----B; महत्त्वात् -- D.