सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ आश्वलायनगृह्यसूत्रभाष्यम् यत्र यत्र व्याहृतीनां प्रत्येकमुपदेशः स्यात् तत्र तत्र चतस्रो गृह्येरन्निति । अविशिष्टेन व्याहृतिग्रहणेन चतस्रो " गृह्यन्ते । तस्मादिह चतस्रो व्याहृतयः सिद्धा भवन्ति ।। ५ ।। || समुच्चयमेके ॥ ६ ॥ एके आचार्याः समुच्चयमिच्छन्ति । व्याहृतीनां पूर्वोक्तानां चाहुतीनां समुच्चयमिच्छन्ति । तत्र आहुतीनां समुच्चयी भवतीति कथमेतज्ज्ञायते । आहुत्यधिकारात् ' चतस्र आज्याहुतीर्जुहुयात् ' (१.४. ३) इति । तेन न मन्त्रसमुच्चयः, आहुतीनां च समुच्चय इत्युक्तं पुरस्तात् ॥ ६ ॥ नैके कांचन ॥ ७ ॥ एके आचार्याः कामप्याहुति नेच्छन्ति । किमुक्तं भवति । नैवाहुतयो भवन्तीति । एवं सति नैक इत्येव वक्तव्यम्, कांचनग्रहणपार्थकम् । नैक इत्येवमुच्यमाने समुच्चयविकल्पः स्यात् । समुच्चयो भवति वा न वेति । एवं गृह्यते, प्रतिषेधविकल्पस्तु न स्यात् । अतः कांचनग्रहणं क्रियते । नैतदस्ति प्रयोजनम् । कस्मात् । समुच्चयविकल्पस्य प्रागवोक्तत्वात् । तस्मान्नैक इत्येव वक्तव्यम् । ब्रवीति । नैक इत्येवमुच्यमाने दोषः स्यात् । को दोष: 1 होमविकल्पः स्यान्नाहुतिविकल्पः । कः पुनर्विशेषो होमस्य बा आहुतीनां च । आहुतयो या इहोपदिष्टास्तासां प्रतिषेधः स्यात् । होमे तु प्रतिषिध्यमाने नैव होमकर्मारभ्यते । तेन कांचनग्रहणं क्रियते । कथम् । आहुतिप्रतिषेधः स्यात् । न होमप्रतिषेध इति ॥ ७ ॥ ' त्वर्यमा भवसि यत् कनीनाम्' (ऋ० सं० ५. ३. २) इति विवाहे चतुर्थी ॥ ८ ॥ 1 प्रत्येकम् -- omitted in B. 2 सप्त---A, C, D. 3

  • चतुर्थीम्---B.