प्रथमोऽध्यायः १६ कृताकृतम् । एवमपि यत्त्राज्य चोद्यते तत्रैव कृताकृतं भवति । यत्र न चोद्यते तत्र न भवति । किमाज्यहोमेष्विति । अविशेषात् सर्वाज्यहोमेषु प्राप्नोति । नेत्युच्यते । कस्मात् । यदि सर्वत्र स्यात् तत्र तत्राज्यग्रहण - मपार्थकं स्यात् । तेन तत्र तत्राज्यग्रहणप्रयोजनमेतदेव कथं कृताकृतत्वं परिस्तरणस्य स्यादिति ॥ ४ ॥ तथाज्यभागौ पाकयज्ञेषु ॥ ५ ॥ तथाशब्दः प्रकारवाची । तेन प्रकारेण कृताकृतावित्यर्थः । आज्य- भागौ पाकयज्ञेषु भवतो न वा । तत्रैके पाकयज्ञग्रहणप्रयोजनं । वर्णयन्ति -- अन्ये पाकयज्ञा अन्ये आज्यहोमा इति । येषामन्यत्वं तेषामुक्तो दोषः । तन्त्रं न प्राप्नोत्याज्यहोमेषु । अथ किमर्थं पाकयज्ञग्रहणम् । आज्यहो -. माधिकारनिवृत्त्यर्थम् ॥ ५ ॥ ब्रह्मा च धन्वन्तरियज्ञशूलगववर्जम् ॥ ६ ॥ । तथेत्यनुवर्तते । ब्रह्मा चानित्यो भवति । किं सर्वनानित्यो भवति । नेत्युच्यते । धन्वन्तरियज्ञशूलगववर्जम् । अन्यत्रा नियमो भवति । तत्त्र संशयः । धन्वन्तरियज्ञे शूलगवे च किं ब्रह्मा नैव भवत्याहोस्विन्नित्य एवेति । ब्रवीति । नित्य एव ब्रह्मा तयोः । कथं गम्यते । दर्शनात् । ब्रह्माणमग्नि चान्तरा ( १. १२. ६ ) इति, तथा चरित्रवन्तं ब्रह्माणमुपवेश्य ' इ ' वैद्यं ( ४. ९.१४ ) इति च । यदि तर्हि दर्शनात् प्रवृत्तिः प्रतिषेधोऽपार्थकः । नेत्युच्यते । यदि तर्हि प्रतिषेधो न 1 A omits ग्रहण. ब्रह्मा A, C, D. 2 अनित्यो - - A, C, D. धन्वन्तरिय
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/५८
दिखावट