१४ आश्वलायनगृह्यसूत्रभाष्यम् कथं पुनरेतत् ज्ञायते । प्राग् विधानाद् विवाहाग्नेः । यदि तत्राभिप्रेतम- भविष्यत् तमेव तावद् ब्रूयात् । यस्मादनुत्पाद्यैव। तमग्नि ब्रूते "तस्मादनियतोऽग्निः । तस्मादनुपेतभार्यः पृथक्स्थालीपाकश्चेत् तेन यस्मिन्कस्मिश्चिदग्नौ भवत्येवेति सिद्धम् । पाणिना वैश्वदेवं कर्तव्यम् । न पात्रान्तरेण । कस्मात् । शक्यत्वात् ॥ ६ ॥ इति प्रथमे द्वितीया कण्डिका अथ खलु यत्र क्व च होण्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षळेवा उदगायतां पश्चात् प्रागायते नानान्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्नि प्रतिष्ठाप्यान्याधाय परि समुह्य परिस्तीर्य पुरस्ताद् दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् ॥ १ ॥ कर्तव्यमिति वाक्यशेषः । सामर्थ्यात् । अथशब्दः किमर्थः । अधिकारार्थः । कथम् । इत उत्तराणि यानि कर्माणि वक्ष्यन्ते तेषामेव कथमयं होमविधिः स्यादिति । किं प्रयोजनम् । वैश्वदेवे मा भूदिति । खलुशब्दोऽपार्थकः। कस्मात् । शक्यत्वात् । " मिताक्षरेष्वनर्थका: " ( वृ० दे० २. ६० ) इति वचनात् । यत्रक्वचग्रहणं कस्मात् । अथ खलु होष्यन् स्यादित्येवमुच्यमानेऽहरहर्होमविधिः प्रसज्येत । तेन यत्रक्वचग्रहणम्" । यत्र होमो विहितस्तत्रैव कथं स्यादिति । एवमपि यत्र होष्यन् स्यादित्येवं वक्तव्यम् । क्वचग्रहणं नैव कर्तव्यम् । उच्यते । कर्तव्यमेव । कस्मात् । 1 अनुक्त्वाद्यैव - A, C, D, एतेन A. wwww line in the • ग्रहणेन -- B. 4 अमिताक्षरेषु — B. 2 एतस्मात् -A.. ३ स्थालीपाकश्च 5 अनर्थका: - A, C, D. The full Brhaddevatā reads : मिताक्षरेषु ग्रन्थेषु पुरणार्थास्त्वनर्थंकाः । 7 एवं omitted in B. वक्तव्यम् -A, C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/५३
दिखावट