प्रथमोऽध्यायः १३ तच्चानिष्टम् । ततो दिवाग्रहणं क्रियते प्रातरारम्भणार्थम् । होमस्तु नैबम् । कस्मात् । तथा चोदितत्वात् ।। ७ ।। रक्षोभ्य इत्युत्तरतः ॥ ८ ॥ कस्योत्तरतः । सर्वासाम् ॥ ८ ॥ 11 & t स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् प्राचीनावीतीति यज्ञोपवीतित्व निवृत्त्यर्थम् । अवचनात्तु प्राचीना- वीतित्वं न भविष्यति । यथा--' दक्षिणस्यां दिशि मासाः पितरः (आ० श्र० १.११.७ ) इति पत्नीवाचने यज्ञोपवीत्येव करोति । एव- मिहापि स्यात् । तस्मात् प्राचीनावीतित्वं विधीयते । निनयेदिति न वक्तव्यम् । यथान्यासां देवतानामनुच्यमानेऽपि निनयनं भवत्येव तद्व- दिहापि भविष्यति । नेत्युच्यते । निनयनग्रहणं क्रियान्तरज्ञापनार्थम् । क्रियान्तरत्वे सति को धर्मलाभः । बलिहरणमिदं न भवतीति ज्ञापितं भवति । किमेवं सिध्यति । स्वाहाकारोऽत्र न भवति । का पुनरत्र क्रिया- भिप्रेता । पितृयज्ञः । अथ शेषग्रहणं क्रियते । किमर्थम् । अनन्तर- । ज्ञापनार्थम् । क्रियान्तरत्वात् कालान्तरे स्यात् । यथा प्राक् कृतो यत्नो देवयज्ञादनन्तरं भूतयज्ञः कथं स्यादिति तत्राथशब्दः प्रयुक्तः, एवमिहापि शेषग्रहणं क्रियते । अनन्तरज्ञापनार्थम् ' । एवमुक्तं वैश्वदेवम् । अथ कस्मिन्नग्न भवतीति संशयः । उच्यते । यस्मिन्कस्मिश्चिदग्नौ भवति । 1 यज्ञोपवीतनि - A ; यज्ञोपवीतिनि B, C, D. ॐ भवति -- B, C, D. 4 प्राचीनावीतत्वं A, B, D. • अत्रायशब्द: C, D; स्यादित्यथशब्दः A. in A $
- कस्मिश्चिदग्नौ - A.
2 अवचनाच्च B. 5 अपि omitted ..... 7 प्रज्ञापनार्थम् -- C.