चतुर्थोऽध्यायः २५५ संपनमिति पृष्ट्वा यद्यदन्नमुपभुक्तं तत्तत् स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ।। २७ ।। श्रावणादनन्तरं संपन्नं पृच्छति । ब्राह्मणैर्यद्यदन्नमुपभुक्तं स्थालीपाकाच्च । कः पुनः स्थालीपाको गृह्यते । येषां पिण्डपितृयज्ञस्था- लीपाकः तस्य सर्वेषु श्राद्धेषु प्रवृत्तिर्भवति । नेत्युच्यते । विद्यमानस्योप- योगमात्रमिदं नाविद्यमानस्य चोदना । क्वचासौ विद्यते । अमावास्यायाम् । अन्येषु श्राद्धेषु भोजनार्थादेव निपरणम् । तत्र काम्ये नित्यं पिण्डनिपरणम् आहिताग्नेश्चानाहिताग्नेश्च । अपार्वणे आभ्युदायिके विकल्प: । आहि- ताग्नेस्तु निपरणं भवति । इतरस्तुल्यः । एकोद्दिष्टेष्वेकं पात्रमेकश्च पिण्डो भोजनार्थादेवान्नात् । तूष्णीमेव क्रियां मन्यन्ते । शास्त्रान्तरदर्शनाच्च । नवश्राद्धममन्त्रकम् ' इति । एवं तुल्याधिकारेऽपि श्राद्धविशेषा द्रष्टव्याः । अन्यश्वोक्तो विकल्प: ' मासि मासि चैवम् ( २. ५: ११ ) इति । एवं पिण्डार्थमुद्धृत्य यदवशिष्टमन्नं तन्निवेदयेत् ॥ २७ ॥ अभिमतेऽनुमते वा ॥ २८ ॥ J अभिमतिर्नामात्मनः स्वीकरणम् । निवेदितं यदि ते काङक्षन्ति देयं तेषाम् । अथ चेदनुजानते गृहपतिरात्मोपयोगं करोति ॥ २८ ॥ भुक्तवत्स्वनाचान्तेषु पिण्डान् निदध्यात् ॥ २६ ॥ प्रागाचमनादेतस्मिन् काले पिण्डनिपरणं कर्तव्यं पूर्वोक्तेन विधानेन ॥ २६ ॥ आचान्तेष्वेके ॥ ३० ॥ एके आचार्याः आचान्तेषु पिण्डनिपरणमिच्छन्ति ॥ ३० ॥ 1 तत्सर्वं - B.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२९४
दिखावट