२५२ आश्वलायनगृह्यसूत्रभाष्यम् अप्पूर्वं ताः प्रतिग्राहयिष्यन् सकृत् सकृत् स्वधार्ध्या इति ॥ १३ ॥ यदा प्रतिग्राहयिष्यन् भवति तदा पूर्वमपो ददाति । सकृत् सकृत् स्वधार्थ्या इति । आपः स्वधाया अर्ध्याः स्वधार्थ्याः । तासां सकृद्दानं भवति । एवं ब्रुवता किं ज्ञापितं भवति । या अस्वधार्थ्यास्तासामसकृद्दानं भवति । ' प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्य ' ( १ २४.१३ ) इत्येवमेके । प्रतिग्राहयिष्यन्नित्युत्तराङ्गं केचित् कुर्वन्ति । प्रतिग्राहयिष्यन् सकृत् सकृत् स्वधार्ध्या इति मन्त्रं मन्यन्ते । प्रतिग्राह्या अनेन मन्त्रेण ता अर्ध्या निवेदयति । सकृद्वचनं प्रतिब्राह्मणं निवेदनमन्त्रो मा भूदिति । तेनैवं ब्रुवता कि ज्ञापितं भवति । अन्यो मन्त्रः प्रतिब्राह्मणमावर्तत इति । कः पुनरसौ | अर्घ्यदानमन्त्रः ॥ १३ ॥ प्रसृष्टा अनुमन्त्रयेत ' या दिव्या आपः पृथिवी संबभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शं स्योना भवन्तु ' ( तै० ब्रा० २.७ १५.४) इति संस्रवान् समवनोय ताभिरद्भिः पुत्रकामो मुखमनक्ति ॥ १४ ॥ प्रसृष्टाः प्रदत्ता अर्ध्या अपोऽनुमन्त्रयेत । या दिव्या इत्यनेन मन्त्रेण । तत्रानुमन्त्रणे विप्रतिपन्नाः । सर्वान् केचिदिच्छन्ति । प्रतिविसर्जनमपरे । या यथा प्रसृष्टास्तास्तथैवानुमन्त्रयन्ते । अन्ते त्वनुमन्त्रणं कुर्वतां सकृन्मन्त्रः । शक्यत्वात् । इतरथा हि मन्त्रभेदः कालभेदात् । संस्रवान् समवनयन्ति । अर्घ्यदानादवशिष्टा या आप आसन् ताः प्रथमे पाते समवनीय ताभिरव- शिष्टाभिरद्भिः पुत्रकामो मुखमनक्ति पुत्रकामसमर्थश्चेत् ।। १४ ।। नोद्धरेत् प्रथमं पानं पितॄणामर्घ्यपातितम् । आवृतास्तव तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥ १५ ॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२९१
दिखावट