चतुर्थोऽध्यायः २५१ तैजसादिषु पात्रेषु । तथोपदेशादेव त्रिषु पात्रेषु भवति । अतस्त्रिग्रहणमपार्थकम् । उच्यते ... विशेषणचोदना कथम् । एतेष्वेव पात्रेषु कथं स्यादिति । कुतो वान्येषु स्यात् प्रसङ्गः । एकद्रव्येष्विति । तत्त्रा- न्यद्रव्याणां प्रसङ्गो मा भूदिति । अपरे तु तदेव विपरीतं त्रिषु पात्रे - ष्विति । कथम् तैजसादीनां त्रिषु पात्रेषु । कथम् । तैजसादीनामेकैकस्य द्रव्यस्य त्रीणि पात्राणि कार्याणि । नन्वेकद्रव्येषु वेत्यनेनैव सिध्यति । न सिध्यति । अन्यद्रव्यप्राप्त्यर्थम् । न केवलमधिकृतानामेव द्रव्याणां पात्राणि भवन्ति । तस्मात् शङ्खादीनां प्राप्तिः सिद्धा भवति । दर्भान्तर्हितेष्वप प्रादाय पात्रेषु ततोऽनुमन्त्रयते शं नो देवीरित्यनेन मन्त्रेण । सकृदनुमन्त्र - णम् । शक्यत्वात् । अनुमन्त्रितासु तिलानावपति तिलोऽसीत्यनेन । प्रतिपानं मन्त्रावृत्तिः ।। १० ।। प्रसव्येनेतर पाण्यङ्गुष्ठान्तरेणोपवीतित्वात् ॥ ११ ॥ प्रगतसव्यं प्रसव्यम् । प्रसव्येन पाणिना पितॄणामर्घ्यदानमित्यस्मिन् प्राप्ते इदमारभ्यते । इह नित्यं पितॄणामपि प्रदक्षिणमर्घ्यदानं भवति । एतस्मिन् प्राप्ते प्रदक्षिणमर्घ्यदानं विधीयते प्रसव्येनेति । इतरेण पाणिना । कथम् । इतरपाण्यङ्गुष्ठान्तरेणेति वचनात् । इतरग्रहणे सव्यग्रहणम् । इंतरस्य पाणेरङ्गुष्ठ इतरपाणेरङ्गुष्ठस्यान्तरमितरपाण्यङ्गुष्ठान्तरं तना- न्तरेण दद्यात् । उपवीतित्वाद्धेतोस्तेनैव तस्मिन् कर्मणि प्राचीनावीतित्व- मुपदिश्यते तस्मात् तेनान्तरेण ददाति ॥ ११ ॥ दक्षिणेन वा सव्योपगृहीतेन ' पितरिदं ते अध्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यम्' इति ॥ १२ ॥ दक्षिणेन वा पणिता यथाप्राप्तं ददाति । कथं प्रादक्षिण्यम् । प्रादेशिन्यङ्गुष्ठयोरन्तरेण पितृदैवतेन तीर्थेन सव्येन पाणिनोपगृहीतेन ' पितरिदं ते अर्घ्यम्, पितामहेदं ते अर्घ्यम्, प्रपितामहेदं ते अर्घ्यम्' इत्येवं त्रयाणामेतैर्मन्त्रैः ।। १२ ।।
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२९०
दिखावट