सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० आश्वलायनगृह्यसूत्रभाष्यम् तत्रानाद्य इति । आद्यं प्रथमं यस्मिन् त्रयाणामादौ निपरणं क्रियते । तत् प्रथमं वर्जयित्वा द्वितीयादिषु काममेकं भोजयेत् । एवमेके । अथापरे - नाद्य इति अद्यते यस्मिन् श्राद्धे भुज्यते तदाद्यम् । न आद्यमनाद्यं न भुज्यते यस्मिन् श्राद्धे इति । कथं पुनरभोजनीयं श्राद्धम् । आमं हिरण्यं यदा दीयते तत्र काममेकं नियुञ्ज्यात् । अथवा काममनाद्य इति यत्त्राद्यं न विद्यते तदनाद्यं दुर्भिक्षमित्यर्थः । नित्यत्वाच्छ्राद्धस्य एकं वा भोजयेत् तत्त्रति ।। ५ ।। पिण्डैर्व्याख्यातम् ॥ ६ ॥ पिण्डनिपरणे ये विकल्पास्त इहापि भवन्ति ।। ६ ।। अपः प्रदाय ।। ७ ।। उपवेशनादनन्तरमपः प्रयच्छति ।। ७ ।। दर्भान् द्विगुणभुग्नानासनं प्रदाय ॥ ८ ॥ ततोऽनन्तरं दर्भान् द्विगुणभुग्नानासने ददाति । आसनमिति सप्त मीस्थाने द्वितीया द्रष्टव्या ।। ८ ।। अपः प्रदाय ॥ ६॥ पुनरप ददाति ॥ ६ ॥ तेजसाश्ममयमुन्मयेषु विषु पावेष्वेकद्रव्येषु वा दर्भान्तह- तेष्वपः प्रदाय ' शं नो देवीरभिष्टये ' ( ऋ० सं० १०. ६.४) इत्यनुमन्त्रितासु तिलानावपति 'तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितृनिमान् लोकान् प्रीणयाहि नः स्वधा नमः' इति ॥ १० ॥