चतुर्थोऽध्यायः २४७ कर्ता जपेदितरेषु परिक्रामत्सु । कथम् । अग्निना अनडुहा - आनड्डहेन चेति ये पठन्ति तेषामानड्डहं गोमयं भवति । अन्ये तवानडुहं गोम- I I यमिति पठन्ति । येऽनड्वामिति पठन्ति तेषामनडुहा च भवति || १४ || पिङ्गलोऽनड्वान् परिणेयः स्यादित्युदाहरन्ति ॥ १५ ॥ अथोपविशन्ति यत्त्राभिरंस्यमाना भवन्ति ॥ १६ ॥ कर्मेदं कृत्वा तदनन्तरमुपविशन्ति यत्नाभिरंस्यमाना भवन्ति । मनसो यत्र रोचते तत्रोपविशन्ति ॥ १६ ॥ अहतेन वाससा प्रच्छाद्यास्वपन्त आसत ओदयात् ॥ १७ ॥ अनुपयुक्तवाससा प्रच्छाद्य आवृत्य सर्व आसते अस्वपन्तः ओदया- दादित्यस्य ।। १७ ।। . उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ' अप नः शोशुचदघम् ' ( ऋ० सं० १. ६७.१ ) इति प्रत्यृचं हुत्वा ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयोत । गौः कंसोsहतं वासश्च दक्षिणा ।। १८ ।। . उदिते आदित्ये । सौर्याणि व्याख्यातानि । तानि स्वस्त्ययनानि च जपित्वा अन्नं संस्कृत्य अप नः शोशुचदवमिति प्रत्यृचं जुहोति । प्रत्यृच- ग्रहणमुक्तप्रयोजनम् । ततो ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वा गौ: कंसोsहतं वास इत्येतानि द्रव्याणि दक्षिणां ददाति ।। १८ ।। इति चतुर्थे षष्ठी कण्डिका अथातः पार्वण श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा 41911
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२८६
दिखावट