२४४ . आश्वलायनगृह्यसूत्रभाष्यम् विद्यमानानामिध्मानां शमीमयत्वं गुणश्चोद्यत इति । अपूर्वे अरणी चोद्येते । एकेन वाक्येन द्रव्यचोदना गुणचोदना च न स्याताम् । अस्तु द्रव्यम् अरणी चोद्यते । अत एव शमीग्रहणं न क्रियते । कस्मात् । द्रव्याधिकारात् । तस्मात् परिधयोऽपि शमीमया भवन्ति । आनडुहं गोमयमुपकल्पयेरन् । अनडुद्ग्रहणं गोमयविशेषणार्थम् । यावत्यो युवतयः । तस्मिन् गृहे यावत्यो युवतयः स्युः तावन्ति कुशपिञ्जलानि कुशतरुणकानि उपकल्पयेरन् । नवनीतमपि केचिदिच्छन्ति । तेषामुपक्लृप्तानां द्रव्याणामनिर्दिष्टानां यथार्थमुपयोगः कर्तव्यः ॥ ४ ॥ अग्निवेलायामग्न जनयेत् ' इहैवायमितरो जातवेदाः ( ऋ० सं० १०. १६. 2 ) इत्यर्धर्चेन ॥ ५ ॥ 7 अग्निवेलायामिति । सायं योऽग्निहोत्रकालः साग्निवेलेत्युच्यते । तस्यां वेलायामग्नि जनयन्ति तयोररण्योः इहैवायमितरो जातवेदा इत्य- र्धर्चेन ।। ५ ।। तं दीपयमाना आसत आ शान्तरात्वादायुष्मतां कथाः कीर्तयन्तो माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः || ६ || आ शान्तरात्रादिति । संनिविष्टेषु ( जनेषु ) । शान्तायां निशि ते तूष्णीमासत इति । आयुष्मतां चिरजीवितानां कथाः कीर्तयन्तः कुल- वृद्धानां चान्येषां च । माङ्गल्यादीनि चाख्यापयमाना अन्योन्यम् ।। ६ ।। शान्तरातस्यानियतत्वान्नियमं करोति -- उपरतेषु शब्देषु संप्रविष्टेषु वा गृहं निवेशनं वा दक्षिणाद् द्वारपक्षात् प्रक्रम्याविच्छिन्नामुदकधारां हरेत् ' तन्तुं तन्वन् रजसो नुभामन्विहि' (ऋ० सं० १०. ५३. ६ ) इत्योत्तरस्मात् ॥ ७ ॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२८३
दिखावट