२४२ आश्वलायनगृह्यसूत्रभाष्यम् यदि पूर्वस्यादेशः स्यात् अवकीर्णेष्वित्येवं ब्रूयात् । अथानवेक्षं प्रत्या- व्रज्याप उपस्पृश्य श्राद्धमस्मै दद्युः । अथशब्दकरणाज्ज्ञापयति क्रियान्तरं प्रकृतमिति । अपरे यथाक्रममिच्छन्ति । अनवेक्षमित्यनवलोकयन्तः प्रत्या- व्रज्याप उपस्पृशन्ति स्नानं कुर्वन्ति ततः श्राद्धमस्मै दद्युः । अस्मै प्रेताय श्राद्धं दद्युरिति ॥ ८ ॥ इति चतुर्थे पञ्चमी कण्डिका गुरुणाभिमृता अन्यतो वापक्षीयमाणा अभावास्यायां शान्तिकर्म कुर्वोरन् ॥१॥ गुरुणाभिमृता ये भवन्ति गुरोर्भरणे अन्यतो वा अपक्षीयमाणा इति । कुतोऽपक्षये सति । भ्रातृपुत्त्रापक्षये । अमावास्यायां शान्तिकर्म कुर्वन्ति । यदुच्यते तत् कर्तव्यम् ॥ १ ॥ पुरोदयादग्नि सहभस्मानं सहायतनं दक्षिणा हरेयुः ' क्रव्यादमग्न प्रहिणोमि दूरम्' (ऋ० सं० १०. १६. ९ ) इत्यर्धर्चेन ॥ २ ।। प्रागुदयादग्नि सहभस्मानं सहायतनं सहायतनेन दक्षिणा दक्षिणस्यां हरेयुर्नयेयुः देशान्तरं प्रापयेयुः क्रव्यादमग्निमित्यर्धर्चेन । कतरस्याग्नेरय- मुत्सर्गः । संशयाभावात् कुतो विचारणेति । अनेकाग्नित्वात् संशयः । उच्यते । एकत्वादग्नेर्नास्ति संशयः । कः पुनरसौ । पचन इत्येके । गृह्य इत्यपरे । प्रतिविशिष्टत्वात् तस्योत्सर्गो न भवितुमर्हति । इतरथा वेताग्नेरपि प्रसङ्गः स्यात् । तस्मान्न तस्योत्सर्गः । प्रतिविशिष्टत्वात् । तस्मात् साधारणस्योत्सर्गेण भवितव्यम् । कः पुनरसौ । पचनः । अन्यः पचनोऽन्यश्च गृह्य इति तत्र प्रागप्यनयोर्नानात्वमुक्तम् । कुतः पुनः पचनस्योत्पत्तिः । उत्तरत वक्ष्यामः । तस्मात् साधारणस्य पचनस्येति सिद्धम् || २ ||
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२८१
दिखावट