सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। ४ ।। चतुर्थोऽध्यायः २४१ अगुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसं ह्लादयन्तोऽवदध्युः असंह्रादयन्तः अस्खालयन्तः अवदध्युः ॥ ४ ॥ पादौ पूर्वं शिर उत्तरम् ॥ ५ ॥ कुम्भे पादौ पूर्वं शिर उत्तरमवदध्युः । अनयोर्द्वयोरुपदेशात् क्रमेणैवा- वधानं भवतीति साधयति पद्भ्यामारभ्येति ॥ ५ ॥ सुसंचितं संचित्य पवनेन संपूय यत्र सर्वत आपो नाभिस्य- न्देरन्नन्या वर्षाभ्यस्तत्र गर्तेऽवदध्युः ' उप सर्प मातरं भूमिमेताम्' (ऋ० सं० १० १८.१० ) इति ॥ ६ ॥ सुसंचितं संचित्य नियमेन अनुत्सृज्य पवनेन शूर्पेण संपुनाति । यत सर्वत आपो नाभिस्यन्देरन् । वर्षाभ्योऽन्या यास्तासां प्रतिषेधः । तत्र गर्तौऽवदध्युः । यत्र मन्त्रवती क्रिया तामेकः करोति । अन्याः सर्वे कुर्वन्ति संभवात् । विशेषकरणं प्रागुक्तम् - आदहनस्येति । इदमपि श्मशानं तल्लक्षणसंयुक्तमेव भवति । उप सर्प मातरमित्यनया अवदधाति ॥ ६ ॥ उत्तरया पांसूनवकिरेत् । अवकीर्ण उत्तराम् ॥ ७ ॥ उच्छ्वञ्चस्वेत्यनया पांसूनवकीर्य उत्तरां जपति ॥ ७ ॥ 'उत्ते स्तभ्नामि' (ऋ० सं० १० १८.१३ ) इति कपालेन पिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्राद्धमस्मै दद्युः ॥ ८ ॥ अवधानादनन्तरमबकिरणम् । तत उत्ते ' इति कपालेनापिधानं भवति । तत अवकीर्ण उत्तरामिति पुनरवकीर्णग्रहणेनावकिरणान्तरं चोद्यते न पूर्वस्यादेश इति । कथं गम्यते । पुनरवकिरणादेकवचनोपदेशाच्च । 16