एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थोऽध्यायः २३६ दानाध्ययने वर्जयेदित्यनुवर्तते ॥ १६ ॥ गुरौ चासपिण्डे ॥ १७ ॥ दशाहमेव ।। १७ ।। अप्रत्तासु च स्त्रीषु ॥ १८ ॥ अविवाहितासु स्त्रीषु दशरात्रमिति ॥ १८ ॥ त्रिरात्रमितरेष्वाचार्येषु ॥ १६ ॥ आचार्येषु च इतरेषु त्रिरात्वमेव । यस्त्वेकदेशमध्यापयति स उपा- ध्यायः ( आचार्य : ? ) ॥ १६ ॥ ज्ञातौ चासपिण्डे || २० ॥ त्रिरातमेव ॥ २० ॥ प्रत्तासु च स्त्रीषु ॥ २१ ॥ विवाहितासु स्त्रीषु त्रिरात्रमेव ।। २१ ।। अदन्तजाते || २२ ॥ अदन्तजाते च त्रिरात्रम् ।। २२ ।। अपरिजाते च ॥ २३ ॥ अपरिजातो नाम गर्भगतो यदा म्रियतेऽसंपूर्णस्तदा त्रिरात्रम् ||२३|| एकाहं सब्रह्मचारिणि ॥ २४ ॥ सब्रह्मचारी उपनयनादिभिः संस्कारैः आ समावर्तनात् समानः स सब्रह्मचारी । तस्मिन् सब्रह्मचारिणि दानाध्ययने वर्जयेरन् । अथवैक- स्मिन्नाचार्यकुले सह ब्रह्मचर्यं कृतवान् सब्रह्मचारी ॥ २४ ॥